SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पुरोहितसमुद्देशः। १६३ युक्तमयुक्तं वा गुरुरेव जानाति यदि न शिष्यःप्रत्यर्थवादी१० गुरुंजनरोषेऽनुत्तरदानमभ्युपपत्तिश्चौषधम् ॥ ११ ॥ शत्रूणामभिमुखः पुरुषः श्लाघ्यो नपुनर्गुरूणाम् ॥ १२ ॥ आराध्यं न प्रकोपयेद्यद्यसावाश्रितेषु कल्याणशंसी ॥ १३ ॥ बहुभिरुक्तं नातिक्रमितव्यं यदि नैहिकामुत्रिकफलविलोपः ॥ १४ ॥ सन्दिहानो गुरुमकोपयन्नापृच्छत् ॥ १५ ॥ गुरूणां पुरतो. यथेष्टमासितव्यम् ॥ १६ ॥ अथ शिष्येणोपाध्यायसकाशाद्यथा विद्याग्रहणं कर्तव्यं तदाहनानभिवाद्योपाध्यायाद्विद्यामाददीत ॥१७॥ टीका-नाददीत न गृह्णीयात् । कां ? विद्यां । किं कृत्वा ? अनभिवाद्य अनमस्कारं कृत्वा । कस्मान्न गृह्णीयात् ? उपाध्यायात् सकाशात् । यदा विद्याग्रहणं क्रियते तदोपाध्यायनमस्कारः कार्यः । तथा च वशिष्ठः नमस्कारं विना शिष्यो यो विद्याग्रहणं क्रियात् । गुरोः स तां न चाप्नोति शूद्रो वेदश्रुतिं यथा ॥१॥ अथ शिष्येणाध्ययनकाले यत्कर्तव्यं तदाह अध्ययनकोले व्यासङ्गं पारिप्लवमन्यमनस्कतां च न भजेत् ॥ १८ ॥ १ गुरुवचनानुल्लंघने हेतुमाह- । २ 'प्रत्यर्थी वादी वा स्यात् ' मुद्रित पुस्तके । ३ गुरुजनानां रोषे सति उपायमाह--| ४ सेवा । ५ 'कल्याणमाशंसति ' मुद्रित पुस्तके । ६ गुरुभिरुक्तं मु-पुस्तके । ७ मुष्मिक मु-पुस्तके । ८ पृच्छेत् मु-पुस्तके । ९ अस्मादग्रे पत्रमेकं सटीकं प्राप्तं तदत्र प्रकाश्यते । १. अस्मादले 'यद्यस्ति जातिव्रताभ्यामाधिक्यं समानत्वं वा ' इत्यधिकः . पाठः मूल-पुस्तके । ११ शूदवेद. पुस्तके पाठः । १२ अध्ययनकालेष्वासंगं मु। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy