SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १६२ नीतिवाक्यामृते सदादेशकरो यः स्यात्स्वेच्छया न प्रवर्तते । विनयव्रतचर्याद्यः स शिष्यः सिद्धिभाग्भवेत् ॥१॥ अथ विनयलक्षणमाहव्रतविद्यावयोधिकेषु नीचैराचरणं विनयः ॥६॥ टीका-योऽसौ विनयः, स किंविशिष्टः कथ्यते ? यव्रतविद्यावयोधिकेषु नीचैराचरणं ये व्रताधिका भवन्ति तथा विद्याधिका ये च वयोधिकास्तेषु यत्नीचैराचरणं नमस्करणादिको व्यवहारः स विनयः । तथा च गर्गः व्रतविद्याधिका ये च तथा च वयसाधिकाः। यत्तेषां क्रियते भक्तिर्विनयः स उदाहृतः॥१॥ अथ विनयफलमाहपुण्यावाप्तिः शास्त्ररहस्यपरिज्ञानं सत्पुरुषाधिगम्यत्वं च विनयफलम् ॥ ७॥ ___टीका-ये व्रताधिका भवन्ति तेषां नीचैराचरणेन धर्मप्राप्तिर्भवति । ये च विद्याधिका भवन्ति तेषां स ( अस्मादलेतनानि टीकापुस्तकपत्राणि कृतप्रयत्नान्यपि भोपलब्धान्यतो मूलपुस्तकद्वयं समालोक्य मूलपाठ एव समुन्द्रियते ।-सम्पादकः ) अभ्यासः कर्मसु कौशलमुत्पादयत्येव यद्यस्ति तज्ज्ञेभ्यः सम्प्रदायः ॥ ८॥ गुरुवचनमनुल्लंघनीयमन्यत्राधर्मानुचिताचारात्मप्रत्यवायेभ्यः ॥९॥ १ विद्याभ्यासस्य फलमाह-। २ गुरोर्वचनमनुल्लंघनीयमिति दर्शयति-1 ३ ' चारात् ' इति पाठः मुद्रित-पुस्तके । प्रत्यवायेभ्य इति पदस्याग्रेतनसूत्रेण सह सम्बन्धः कृतः तत्रैव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy