SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पुरोहितसमुद्देशः। टीका-अमानुष्योऽग्निर्विद्युत्पातः, अवृष्टयतिवृष्टी प्रसिद्धः ?, मरकः प्रचुरजनमृत्युः, दुर्भिक्षं, सस्योपघातः शलभादिजन्तूत्सर्गः, मानुषविक्रयः, व्याधिप्राचुर्य, भूतप्राचुर्य पिशाचप्राचुर्य, शाकिनीप्राचुदे, व्यालानां नखायुधानां च प्राचुर्य, मूषिकप्राचुर्य, एता जनस्यापदा दैविका मानुष्यश्च । अथ कुमारो राज्ञा यथा कार्यस्तथाहशिक्षालापक्रियाक्षमो राजपुत्रः सर्वासु लिपिसु प्रसंख्याने पदप्रमाणप्रयोगकर्मणि नीत्यागमेषु रत्नपरीक्षायां सम्भोगप्रहरणोपवाह्य विद्यासु च साधु विनेतव्यः॥४॥ टीका-सम्यक् शिक्षापणीयः शिक्षालापक्रियासु जनसभाकर्मसु क्षम; समर्थः पूर्वं कृत्वा ततो राजपुत्रः पश्चात्सर्वासु लिपिसु शिक्षापणीयः तथा प्रसंख्याने गणितविषये, तथा पदप्रमाणयोगकर्मणि पदकर्म साहित्य, प्रमाणकर्म तर्कः प्रोच्यते, प्रयोगकर्म शब्दव्युत्पत्तिः कथ्यते, तथा नीत्यागमेषु नीतिशास्त्रेषु, तथा संभोगे वात्स्यायनादिषु, प्रहरणे शस्त्रविद्यायां, उपवाह्ये हस्त्यश्ववाहनविद्यासु शिक्षापणीय इति । तथा च राजपुत्रः कुमारो यस्य मुर्खः स्यान्न विद्यासु विचक्षणः। तस्य राज्यं विनश्येत्तदप्राप्त्या नात्र संशयः ॥१॥ अथ शिष्येण गुरोर्यथा वर्तितव्यं तदाह अस्वातन्त्र्यमुक्तकारित्वं नियमो विनीतता च गुरूपासनकारणानि ॥५॥ टीका-गुरूणामुपासनं गुरुसेवा तत्र शिष्यगृहस्थेन उक्तकारित्वं आदेशः कार्यः, नियमो व्रतचर्या, विनीतता नय एतानि गुरुसन्तोषेण शिष्यस्य कारणानि । तथा च गौतमः । १ अस्वातंत्र्यस्य टीका नास्ति । प्रसिद्धश्वास्यार्थः । नीति०-११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy