SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ११ पुरोहित - समुद्देशः । अथ पुरोहितसमुद्देशः, तत्र पुरोहितलक्षणमाहपुरोहितमुदितोदितकुलशीलं षडंगवेदे दैवे निमित्ते दंडनीत्यामभिविनीतमापदां देवीनां मानुषीणां च प्रतिकर्तारं कुर्वीत ॥ १ ॥ टीका — कुशलं (?), कस्मिन् ? षडंगे वेदे तथा दैवे ज्योतिःशास्त्रे, निमित्ते उत्पातदर्शने, तथा दंडनीत्यां च इत्थंभूतं पुरोहितं कुर्वीत | तथा च शुक्रः दिव्यान्तरिक्ष भौमानामुत्पातानां प्रशान्तये । तथा सर्वापदां चैव कार्यो भूषैः पुरोहितः ॥ १ ॥ अथ राज्ञा मंत्रि-पुरोहिताभ्यां यत्कृत्यं तदाह राज्ञो हि मंत्रिपुरोहितौ मातापितरौ, अतस्तौ न केषुचिद्वाञ्छितेषु विस्तरयेत् ॥ २ ॥ I टीका- न निराशौ कार्यो । केषु ? वाञ्छितेषु । किंविशिष्टेषु ? केषुचित् समस्तेष्वपि । हि यस्मात् तौ मातृपितरौ, अतस्तौ नातिक्रमेत् । तथा च गुरु: -- समौ मातृपितृभ्यां राज्ञो मंत्रीपुरोहितौ । अतस्तौ वाञ्छितरथैर्न कथंचिद्विस्तरयेत् ॥ १ ॥ अथ दैवीनां मानुषीणां चापदां स्वरूपमाह - अमानुष्योऽग्निवर्षमतिवर्षं मरकी दुर्भिक्षं सस्योपघातो जंतुसर्गो व्याधिभूतपिशाचशा किनी सर्पव्याल मूषकाचे त्यापदः ||३|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy