SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १६६ नीतिवाक्यामृते पितरमिव गुरुमुंपचरेत् ॥ २४ ॥ टीका-उपचरेत् सेवेत । कं ? गुरुं । किमिव ? पितरमिव जनयितारमिव यथा जनकस्य पुरुषेण ( पुत्रेण ) वर्तितव्यं तथा गुरोरपि । तथा च भारद्वाजः योऽन्तेवासी पितुर्यद्वद्गुरोर्भक्तिं समाचरेत् । स विद्यां प्राप्य निःशेषां लोकद्वयमवाप्नुयात् ॥ १॥ अथ शिष्यो गुरुपत्नीं यथा पश्येत् तथाह___ गुरुपत्नी जननीमिव पश्येत् ॥ २५ ॥ टीका-पश्येदवलोकयेत् । कां ? गुरुपत्नी उपाध्यायां । कामिव? जननीमिव । गुरुभार्या मातृकच्छिष्येणावलोकनीया ? न स (तु) स्मरदृष्टया । तथा च याज्ञवल्क्य: गुरुभार्या च यः पश्येदूदृष्ट्वा चात्र सकामया। .. स शिष्यो नरकं याति न च विद्यामवाप्नुयात् ॥१॥ अथ गुरुपुत्रेण शिष्येण यथा वर्तितव्यं तदाह-- गुरुमिव गुरुपुत्रं पश्येत् ॥ २६ टीका-पश्येदवलोकयेत् । कं ? गुरुपुत्रं । कमिव ? गुरुमिव याहग्भक्त्या गुरुं तथा पश्येत्तादृग्भक्त्या गुरुपुत्रमपि । तथा च वादरायणः यथा गुरुं तथा पुत्रं यः शिष्यः समुपाचरेत् । तस्य रुष्टो गुरोः कृत्स्ना निजां विद्यां निवेदयत् ॥१॥ अथ ब्रह्मचर्यसमोपेते यथा वर्तितव्यं तथाहसब्रह्मचारिणि बान्धव इव स्निह्येत्॥२७॥ १ उपाचरेत् मु-मू. । २ मन्येत मु-मू-पुस्तके । ३ श्लोकोऽयं याज्ञवल्क्यस्मृतौ नास्ति । ४ गुरुवत् मु-मू-पुस्तके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy