________________
३५०
अशोकपत्रारुणपाणिपल्लवा, समुल्लसत्केसरसिंहवाहना। शिशुद्वयालंकृतविग्रहा सती, सतां क्रियाद्विघ्नविनाशमम्बिका ॥६॥ अथान्यदा तं निशि दण्डनायकं, समादिदेश प्रयता किलांबिका। इहा चि (च) ले त्वं कुरु सद्म सुंदरं, युगादिभर्तुनिरपायसंश्रयः ॥१०॥ श्रीविक्रमादित्यनृपाद् व्यतीतेऽष्टाशीतियाते शरदां सहस्र । श्रीआदिदेवं शिखरेऽर्बुदस्य, निवेशितं श्रीविमलेन घन्दे ॥११॥ विघ्नाधिव्याधिहंत्री या, मातेव प्रणतांगिषु । श्रीपुंजराजतनया, श्रीमाता भवतां श्रिये ।।१२।। अचलेशवशिष्टानल-तटिनी मंदाकिनी विमलसलिला। पुण्यानि यस्य शृङ्ग, जयन्ति विविधानि तीर्थानि ।।१३।।
अथ राजावलि वैरिवर्गदलने गततन्द्रश्चाहुमानकुलकैरवचन्द्रः । यो नडूल नगरस्य नरेश, आसराज्ञ इति वीरवरोऽभूत् ॥१४॥ प्रबलवैरिदवानलवारिदः, समरसिंह इति प्रथितस्ततः । मसिंहभट: सुभटाग्रणी:, पृथुयशा अजनिष्ट तरंगजः ॥१५॥ प्रतापमल्लस्तदनुप्रतापी, बभूव भूत्तल (पाल? ) सदस्सु मान्यः । वीरावतंसोऽजनि वीजडोऽस्य, मरुस्थलीमण्डलभूमिभर्ती ॥१६।। आसन् त्रयस्तन (स्तत्तन) या नयाढया, मूर्ताः पुमर्था इव भोगभाजः । आद्यो धरित्रीपतिरक्षपालः, ख्यातः क्षितौ लूणिग नामधेयः ॥१७॥ न्यायमार्गशिखरी मधुमासः कालवत्कवलयन (न्न) रि व्रजं । मण्डलीकपदवीमपालयल्लुंढ इत्यभिधया धियां निधिः । १८॥ विपक्षनारीनयनांबुपूरैश्चकार यः कीर्तिलतां सपत्रां । बभूव भूमीपतिलब्धमानो, लुंभाभिधानो जमदेकवीरः ॥१६॥ संहृत्य शत्रून् प्रबलान् बलेन, श्रीअर्बुदं प्राप्य नगाधिराज । उत्कास भूमंडन राय हल्लहै स्वरती (?) लोकाधिपतिर्बभूव ॥२०॥ लूणिगस्य तनुजो जगज्जयी, तेजसिंह इति तेजसां निधिः । यत्प्रतापदवपावकश्चिरं, वैरिवगविपदं न भातिस्म (१) ॥२१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org