________________
ramananmann.in
८४
सागारधर्मामृतेआनन्दस्य, कीर्तेर्यशसः एकमुत्कृष्टमव्यभिचाीर केतनं गृहं ध्वजो वा यास्ताः धर्मश्रीशर्मकीयॆककेतनं । नित्यं धर्मादिमत्यो धर्मादिविख्याता वा इत्यर्थः॥२८॥ धर्माद्यर्थिनः कुलस्त्रियामप्यत्यासक्तिं निषेधयन्नाह
भजेदेहमनस्तापशमान्तं स्त्रियमन्नवत् ।
क्षीयन्ते खलु धर्मार्थकायास्तदतिसेवया ॥ २९ ॥ टीका-भजेत् सेवेत । कोऽसौ, त्रैवर्णिकः विशेषणादर्शनिकः श्रावकः । कां, स्त्रियं । कथं, यथा भवति देहमनस्तापशमान्तं शरीरमनसोः सन्तापोपशमो यथा भवति न पुनरत्यासक्त्या । किंवत्, अन्नवत् भोजनं यथा। खलु. यस्मात् । क्षीयन्ते क्षयं यान्ति । के, धर्मार्थकायाः धर्मों, धनं, शरीरं च श्रीण्यपि । कया, तदतिसेवया अन्नस्येव स्त्रिया अप्यतिमात्रोपयोगेन ॥
पुत्रस्योत्पादनादिप्रयत्नविधिमाह
पुत्रोत्पादनविधिस्त्वयमष्टाङ्गहृदयोक्तः१ पूर्णषोडशवर्षा स्त्री पूर्णविंशेन सङ्गता।
शुद्धे गर्भाशये मार्गे रक्ते शुक्रेऽनिले हृदि ॥ वीर्यवन्तं सुतं सूते ततो न्यूनाब्दयोः पुनः। रोग्यल्पायुरधन्यो वा गर्भो भवति नैव वा ॥ शुक्र शुक्लं गुरु स्निग्धं मधुरं बहुलं बहु । घृतमाक्षिकतैलाभं सदीयार्त्तवं पुनः ॥ लाक्षारसशशास्राभं धौतं यच्च विरज्यते । शुद्धशुक्रात्तवं स्वस्थं संरक्तं मिथुनं मिथः॥ स्नेहैः पुंसवनैः स्निग्धं शुद्धं शीलितवस्तिकम् । नरं विशेषात्क्षीराद्यैर्मधुरौषधसंस्कृतैः ॥ नारी तैलेन माषैश्च पित्तलै: समुपाचरेत् । क्षामप्रसन्नवदनां स्फुरच्छोणिपयोधराम् ॥ स्रस्ताक्षिकाक्षं पुंस्कामा विद्यादृतुमती स्त्रियम् । पदं सङ्कोचमायाति दिनेऽतीते यथा तथा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org