________________
तृतीयोध्यायः । प्रयतेत सधर्मिण्यामुत्पादयितुमात्मजम् ॥
व्युत्पादयितुमाचारे स्ववत्त्रातुमथापथात् ॥ ३०॥ टीका-प्रयतेत परमादरं कुर्यात् । कोऽसौ, दर्शनिकः । किं कर्तुम् , उत्पादयितुं जनयितुं । कम्, आत्मजमौरसं पुत्रं । क्षेत्रजाघेकादशपुत्राणामनभ्युपगमात् । कस्यां, सधर्मिण्यां समानो धर्मो अस्यामस्तीति नित्ययोगे 'इन्' कुलास्त्रियामित्यर्थः । आत्मनो जात आत्मज इत्यन्वर्थतासिध्द्यर्थ कुलस्त्रीरक्षायां नित्यं यतितव्यमिति प्रतिपत्तव्यं । तथा प्रयतेत । कोऽसौ, सः । किं कर्तु, व्युत्पादयितुं विविधमुत्कृष्टं ज्ञानं प्रापयितुं । कम्, आत्मजं । क्व, आचारे कुललोकसंव्यवहारे। किंवत्, स्ववत् आत्मना तुल्यं । तथा प्रयतेतासौ। किं कर्तु, त्रातुं रक्षितुं निवर्तयितुमित्यर्थः । कम्, आत्मजं । कस्मात्अपथात् धर्मादिभ्रंशनोपायात् दुराचारादित्यर्थः । स्ववदित्यत्रापि योज्यं । अथशब्दः समुच्चये ॥ ३० ॥ __ सत्पुत्ररहितेन श्रावकेणोत्तरपदं प्रति प्रोत्साहो दुष्करः स्यादिति दृष्टान्तेनोपष्टम्भयन्नाचष्टे
विना सुपुत्रं कुत्र स्वं न्यस्य भारं निराकुलः । गृही सुशिष्यं गणिवत् प्रोत्सहेत परे पदे ॥ ३१ ॥ ऋतावतीते योनिः स्याच्छुकं नातः प्रतीच्छति । मासेनोपचितं रक्तं दमानभ्यामृतौ पुनः ॥ ईषत्कृष्णं विगन्धं च वायुर्योनिमुखान्नुदेत् । ततः पक्षेक्षणादेव कल्याणध्यायिनी त्र्यहम् ॥ रजालङ्काररहिता दर्भसंस्तरशायिनी। क्षरेयं यावकं स्तोक कोष्टशोधनकर्शनम् ॥ पणे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी । चतुर्थेऽह्नि ततः स्नाता शुक्लमाल्याम्बरा शुचिः ।। इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम् । ऋतुस्तु द्वादशानिशाः पूर्वास्तिस्रोऽथ निन्दिताः ॥ एकादशी च युग्मासु स्यात्पुत्रोऽन्यासु कन्यका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org