________________
सागारधर्मामृते
टीका-कुत्र, कस्मिन् पुंसि । स्वमात्मीयं । भारं पोष्यादिनिर्वाहभरं । न्यस्य स्थापयित्वा । निराकुलो निर्द्वन्द्वः सन् । प्रोत्सहेत प्रकृष्टमुद्योगं कुर्यात् न वापीत्यर्थः । कोऽसौ, गृही प्रकृतत्वाद्दर्शनिकः । क्व, पदे संयमस्थाने । किंविशिष्टे, परे व्रतिकप्रतिमायां वानप्रस्थाद्याश्रमे वा । कथं, विना अन्तरेण । कं, सुपुत्रं आत्मसमानमात्मजं । किंवत् , गणिवत् धर्माचार्यों यथा । कं सुशिष्यमात्मसमानमेवाचार्याद्विना । कुत्र, श्रमणे । स्वं भारं सङ्घनिवाहलक्षणं । न्यस्य निराकुलो निर्व्यापेक्षः सन् परे आत्मसंस्कारादौ मोक्षपदे वा प्रोत्सहेत, न वापीत्यर्थः । इदमत्रैदम्पयं- दर्शनिकेन धर्माचार्येण च परं पदमाश्रयितुमिच्छता सत्पुत्रः सच्छिष्यश्चात्मवनिष्पादनीयः ॥ ३१ ॥ प्रकृतमर्थमुपसंहरन् बतिकप्रतिमारोहणयोग्यतां सूत्रयन्नाह--
दर्शनप्रतिमामित्थमारुह्य विषयेष्वरम् ।
विरज्यन् सत्त्वसज्जः सन्त्रती भवितुमर्हति ॥ ३२ ॥ टीका--अर्हति योग्यो भवति। कोऽसौ, श्रावकः । किं कर्तुं, भवितुं सम्पत्तुं किंविशिष्टो, व्रती व्रतिकप्रतिमावान् । किंविशिष्टः सन्, सत्त्वसज्जः धैर्यादिसात्विकभावनिष्ठः किं कुर्वन् , विरज्यन् स्वयमेव विरक्तिं गच्छन् । केषु, विषयेषु कामिन्यादिषु । कथ,-मरं पाक्षिकापेक्षया स्वस्य च प्राक्तनावस्थापेक्षयातिशेयन । किं कृत्वा, आरुह्य पर्यन्तं प्राप्य । कां, दर्शनप्रतिमां । कथम्, इत्थमनेन पाक्षिकाचारसंस्कारेत्यादिपूर्वोक्तप्रकारेणेति भद्रम् ॥ ३२॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासज्ञायामादितो द्वादशः प्रक्रमाञ्च
तृतीयोऽध्यायः समाप्तः ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org