SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थोऽध्यायः । अथ व्रतिकप्रतिमामध्यायत्रयेण प्रपञ्चयिष्यन् प्रथमं तावत्तल्लक्षणं संगृह ब्राह सम्पूर्णहग्मूलगुणो निःशल्यः साम्यकाम्यया । धारयनुत्तरगुणानक्षूणान्त्रतिको भवेत् ।। १ ।। टीका - भवेत् । कोऽसौ, व्रतिकः । किं कुर्वन् धारयन् अकृच्छ्रेण दधन् । कानू, उत्तरगुणान् वक्ष्यमाणान् । किंविशिष्टान् अक्षूणान् निरतिचारान् । कया, साम्यकाम्यया इष्टानिष्टयो रागद्वेषोपरमवाञ्छया, न पुनर्लाभादीच्छया । किंविशिष्टः सन् सम्पूर्णहग्मूलगुणः सम्पूर्णा उपयोगमात्राश्रयेणान्तरेङ्गण चेष्टामात्राश्रयेण च बहिरšणातिचारेण रहितत्वादखण्डा दृक् सम्यक्त्वं, मूलगुणाश्च यस्य स तथोक्तः । पुनः किंविशिष्टः, निःशल्यः गुणाति हिनस्तीति शल्य शरीरानुप्रवोशिकाण्डादि, शल्यमिव शल्यं कर्मोदयविकारः शारीरमानसबाधहेतुत्वात् । तत् त्रिविधं मिथ्यात्वमायानिदानभेदात् । मिथ्यात्वं विपरीताभिनिवेशः, माया वञ्चना, निदोनं तपःसंयमाद्यनुभावेन कांक्षाविशेषः, शल्यान्निष्क्रान्तो निःशल्यः ॥ ननु च सम्पूर्णहम्मूलगुण इत्यनेनैव शल्यपरिहारस्य सिद्धत्वात् व्यर्थमिदमिति चेत्सत्यं, किन्त्वचिरप्रतिपन्नव्रतस्य पूर्ववि १ तपःसंयमाद्यनुभावन कांक्षाविशेषो निदानम् । तत् द्वेधा प्रशस्तेतरभेदात् प्रशस्तं पुनर्द्विविधम् । विमुक्तिसंसारानिमित्तभेदात् तत्र विमुक्तिनिमित्तं कर्मक्षयाद्याकाङ्क्षा । उक्तं च कर्मव्यपायं भवदुःखहानिं बोधिं समाधिं जिनबोधसिद्धिम् । आकांक्षितं क्षीणकषायवृत्तेर्विमुक्तिहेतुः कथितं निदानम् ॥ जिनधर्मसिद्धयर्थं तु जात्याद्याकाङ्क्षणं संसारनिमित्तम् । जातिं कुलं बन्धविवर्जितत्वं दरिद्रतां वा जिनधर्मसिध्यै । प्रयाचमानस्य विशुद्धवृत्तेः संसारहेतुर्गदितं निदानम् ॥ मोक्षेऽपि मोहादभिलाषदोषो विशेषतो मोक्षनिषेधकारी | यतस्ततोऽध्यात्मरतो मुमुक्षुर्भवेत्किमन्यत्र कृताभिलाषः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy