________________
तृतीयोध्यायः।
८३
व, धर्मे । किं कुर्व,-नयन् प्रापयन् । कां, पत्नी। किं तत्, प्रेम स्वस्मिन् धर्मे च स्नेहं । किंविशिष्टं, परमुत्कृष्टं । हि यस्मात् भ्रंशयते तरां परिवारा-(दा) दतिशयेन प्रच्यावयति । काऽसौ, सा पत्नी । कं, पुरुष । कस्मात्, धर्मात् । किंविशिष्टा सती, मुग्धा धर्मे मूढा धर्ममजानतीत्यर्थः । तथा विरुद्धा पुंसि 'धर्मे वा द्वेषिणीत्यर्थः । इदमत्र तात्पर्य धर्ममजानानो विरक्तश्च परिजनो नर धर्मात्प्रच्यावयति । ततोऽप्यतिशयेन तादृग्विधा गृहिणी । तदधीनत्वाद्गहिणो धमकार्याणाम् ॥ २६ ॥ प्रेम परं नयन्नित्यस्य समर्थनार्थमाह
स्त्रीणां पत्युरुपेक्षैव परं वैरस्य कारणम् ।
तनोपेक्षेत जातु स्त्री वाञ्च्छन्लोकद्वये हितम् ॥ २७ ॥ टीका-भवति । किं तत्, वैरस्य कारणं वैरस्य विरागताया हेतुः । अथवा वैरस्य विरोधस्य कारणं । किंविशिष्टं, परमुत्कृष्टं । कासां, स्त्रीणां । किं तत्, उपेक्षैव अनादर एक, न तु वैरूप्यनिर्धनत्वादि । कस्य पत्युर्भर्तुः । यत एवं तत्तस्मात् । नोपेक्षेत, नोपेक्षणीयत्धेन पश्येत् । कोऽसौ, पुमान् । कां, स्त्री स्त्रियं कदा जातु कदाचिदपि धर्माद्यनुष्ठानकाले । किं कुर्वन्, वाँच्छन् अभिलषन् । किं तत्, हितं सुखं सुखकारणं च । क्व, लोकद्वयेऽपि इहलोके परलोके च॥२७॥
कुलस्त्रियाऽपि धर्मादिकमिच्छन्त्या भर्तृच्छन्दानुवृत्तिरेव कर्तव्येति प्रास. ङ्गिकी स्त्रियाः शिक्षा प्रयच्छन्नाह
नित्यं भर्तमनीभूय वर्तितव्यं कुलस्त्रिया ।
धर्मश्रीशर्मकीत्येककेतनं हि पतिव्रताः ॥ २८॥ टीका-वर्तितव्यं मनोवाकायकर्मभिराचरितव्यं । कया, कुलस्त्रिया कुलीननार्या । किं कृत्वा, भर्तृमनीभूय अभर्तृमना भर्तृमना भूत्वा पतिचित्तानुवर्तनेनैव चिन्त्यं वाच्यं चेष्टितव्यं च। कथं,नित्यं सर्वदा। हि यस्मात् । भवन्ति। काः, पतिव्रताः पतिसेवैव व्रतं प्रतिज्ञा शुभकर्मप्रवृत्तिर्वा यासां ता इत्यर्थः । किं भवति, धर्मेत्यादि-धर्मस्य पुण्यस्य, श्रियो विभूतेर्भारत्याश्च, शर्मण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org