________________
८२
सागारधर्मामृते
टीका - त्यते संकल्पपूर्वं प्रत्याख्यायते । किं तत्, यत् वस्तु । किंविशिष्टम्, अपायावद्यकृत् अपायोऽभ्युदयनिःश्रेयसभ्रशनोपायः, अवद्यं गर्ह्य, अपायश्वावद्यं चापायावद्ये ते करोति तत् । क्क, इहास्मिञ्जन्मनि । तथाऽमुत्र परजन्मनि । केन प्रत्यते, स्वयं आत्मना । किं तत् व्रतविषयीकृतं वस्तु । नैव प्रयोक्तव्यं प्रयोज्यं । क्व, परेऽपि आत्मनीव पुरुषान्तरेऽपि । कस्यै, व्रतशुद्धये प्रकृतव्रतनिर्मलकरणार्थम् ॥ २४ ॥
एवं प्रतिपन्नदर्शनप्रतिमस्य श्रावकस्य स्वप्रतिज्ञानिर्वाहार्थमुत्तरेण प्रबन्धेन शिक्षां प्रयच्छन्नाह
अनारम्भबंधं मुञ्चेच्चरेन्नारम्भमुध्दुरम् । स्वाचारप्रतिलोम्येन लोकाचारं प्रमाणयेत् ॥ २५ ॥
टीका – मुञ्चेत् त्यजेत् । दर्शनिकः । कम्, अनारम्भबधं तपः संयमादिसाधनतनुस्थित्यर्थायाः कृष्यादिक्रियाया अन्यत्र प्राणिहिंसां । एतेन यदुक्तं स्वामिसमन्तभद्रदेवैः - ' दर्शनिकस्तत्वपथगृह्य' इति दर्शनप्रतिमालक्षणं तदपि संगृहीतं, तथाविघहिंसाविरतिविध्युपदेशेन पञ्चाणुव्रतानुसरणविधानोपदेशात् । तथा न चरेत् न कुर्यात् । कम्, आरम्भं कृष्यादिकं । किंविशिष्टम्, उध्दुरम् आत्मनिर्वाह्यभरं । परेण हि कृष्यादिक्रियां कारयतो द्वन्द्वलाघवान्न तादृशी प्रतिज्ञातधर्मकर्मानुष्ठाने गृहिणो विहस्तंता भवति यादृशी तामात्मना कुर्वतः सा स्यात् द्वन्द्वावर्तविवर्तनात् । तथा प्रमांणयेत् प्रमाणं कुर्यात् न विसंवादयेदित्यर्थः । कं, लोकाचारं स्वामिसेवाक्रयविक्रयादिकं । केन स्वाचाराप्रतिलोम्येन आत्मप्रतिपन्नव्रतानुष्ठानानुपघातेन ॥ २५ ॥
धर्मे पत्न्याः सुतरां व्युत्पादनविधिमुपदिशतिव्युत्पादयेत्तरां धर्मे पत्नीं प्रेम परं नयन् । साहि मुग्धा विरुद्धा वा धर्माद् भ्रंशयते तराम् ॥ २६॥
टीका -- व्युत्पादयेत् तरां । अर्थादिव्युत्पाद्यात् धर्मेऽतिशयेन व्युत्पन्नां कुर्यात् अथवा धर्मविषये सर्वमपि परिवारं च पत्नीं च व्युत्पादयन् पत्नीं ततोऽतिशयेन तत्र व्युत्पादयेदिति व्याख्येयं । कोऽसौ दर्शनिकः । कां, पत्नीं भार्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org