SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः। AAAAAAAAAAAAAN वस्त्रनाणकपुस्तादि-न्यस्तजीवच्छिदादिकम् । न कुर्यात्त्यक्तपापर्द्धि-स्तद्धि लोकेऽपि गर्हितम् ॥ २२ ॥ टीका-न कुर्यात् । कोऽसौ, त्यक्तपापर्द्धिः । किं तत्, वस्त्रेत्यादि, वस्त्राणि पञ्चरङ्गपटादीनि, नाणकानि सीतारामटङ्कादीनि, पुस्तादीनि च लेप्यचित्र. काष्ठाश्मदन्तधात्वादिशिल्पानि, वस्त्राणि च नाणकानि च पुस्तादीनि च वस्त्रनाणकपुस्तादीनि तेषु न्यस्तो नामोच्चारणपूर्वकः सोऽयमिति स्थापितो जीवः प्राणी गजतुरगादिस्तस्य छिदादिकं खण्डनावर्तनभञ्जनादि । हि यस्मात् भवति। किं तत्, वस्त्रादिन्यस्तजीवच्छिदादिकं । किंविशिष्टं, गर्हितं निन्दितं । क, लोकेऽपि व्यवहर्तृजनमध्येऽपि न परं शास्त्रे ॥ २२ ॥ परदारव्यसनदोषनिषेधार्थमाह-- कन्यादूषणगान्धर्व विवाहादि विवर्जयेत् । परस्त्रीव्यसनत्यागवतशुद्धिविधित्सया ॥ २३ ॥ टीका--विवर्जयेत् । कोऽसौ, परदारवर्जी। किं तत्, कन्येत्यादि । कन्यादूषणं कुमार्या अभिगमनं स्वविवाहनार्थ दोषोद्भावनं वा, गान्धर्वविवाहो यो मातुः पितुर्बन्धूनां चाप्रामाण्यात्परस्परानुरागेण मिथः समवायाद्वधूवराभ्यां क्रियते, आदिशब्देन हरविवाहो हरणादि । कया, परस्य स्त्री परस्त्री तत्र तदेव वा व्यसनं तस्य त्यागः स एव व्रतं तस्य शुद्धिर्निर्दोषता तत्र विधित्सा कर्तुमिच्छा तया ॥ २३ ॥ मद्यमांसव्यसननिवृत्त्योस्त्वतीचाराः प्रागेवोक्ताः । इदानीं यतो लोकद्वयविरुद्धबुद्धया आत्मना विरतिः क्रियते परस्मिन्नपि तत्प्रयोग तगतविशुद्धयर्थं न विदध्यादित्यनुशास्ति-- व्रत्यते यदिहामुत्रा-प्यपायावद्यकृत्स्वयम् । तत्परेऽपि प्रयोक्तव्यं नैव तद् व्रतशुद्धये ॥ २४ ॥ १ पंचुम्बरसहियाई सत्तइ वसणाइ जो विवज्जेइ। सम्मत्तविसुद्धमई सो दंसणसावयो भणियो ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy