________________
सागारधर्मामृते—
पणं नतमुज्झतीत्येवंव्रतस्य । किमर्थ, मनोविनोदार्थमपि मनोऽपि रमयितुं प्रयुज्यमानं दोषः, किं पुनर्धनाद्यर्थं । कुतो हर्षामर्षोदयाङ्गत्वात् प्रमोदक्रोधोवहेतुत्वात् । एतदपि समर्थयितुमाह - हि यस्माद्भवति । कोऽसौ, कषायो रागद्वेषपरिणामः । कस्मै, अंहसे पापनिमित्तं । केन अञ्जसा परमार्थेन ||१९|| वेश्याव्यसनव्रता तिचारनिवृत्यर्थमाह
८०
·
त्यजेत्तौर्यत्रिकासक्तिं वृथाव्यां षिङ्गसङ्गतिम् । नित्यं पण्याङ्गनात्यागी तहगमनादि च ॥ २० ॥
टीका ---त्यजेत् । कोऽसौ, पण्याङ्गनात्यागी वेश्यानिवृत्तित्रतः । किं किं, तौर्यत्रिकासक्ति गीतनृत्यवाद्येषु सेवानिबन्धं । आसक्तिग्रहणांच्चत्यालयादौ धर्मार्थ गीतश्रवणं न दोष इति लक्षयति । तथा वृथाट्यां प्रयोजनं विना विचरणां त्यजेत् । तथा षिङ्गसङ्गतिं विटैः सह सागत्यं त्यजेत् । षिड्ग इति पिट् ' सिट् ' अनादरे । सेटनं सिट् अनादरः । सिटा अनादरेण गायति गच्छति वा । "अन्यतोऽपि चेति डः पृषोदरादित्वात्सस्य च पत्वं । तथा तद्द्वेहगमनादि वेश्यागृहगमनसम्भाषणसत्कारादि त्यजेत् नित्यमित्यनेन सर्वदा । अत्र व्रते यत्नं कुर्यात दुर्निवारत्वादित्युपदिशति ॥ २० ॥
चौर्य व्यसनमलोपदेशार्थमाह-
॥
दायादाज्जीवतो राज-वर्चसाद्गृह्णता धनम् । दायं वाऽपवानस्य काचौर्यव्यसनं शुचि ॥ २१ ॥ टीका--क, कस्मिन्देशे काले च । अचौर्यव्यसनं चोरिकापरिहारव्रतं । शुचि निरतिचारं भवति न क्वापीत्यर्थः । कस्य, पुंसः किं कुर्वतो, गृह्णतः । स्वीकुर्वतः । किं तत् धनं ग्रामसुवर्णादिद्रव्यं । कस्मात् दायादात् दायं कुलसाधारणं द्रव्यमादत्ते इति दायादो भ्रात्रादिस्तस्मात् । किं कुर्वतो. जीवतः । मृतस्य तु यथान्यायं स्वीकुर्वतो नास्ति दोषः । कस्माद्गृह्णतो, राज. वर्चसात् नृपतेजसः न जातिकुलदेशकालाद्यनुरोधात् । तथा अपह्नुवानस्य नात्रादिभ्यः अपलपतः । कं, दायम् ॥ २१ ॥
पापा
पर्द्धिविरत्यती चारनिषेधार्थमाह
Jain Education International
For Private & Personal Use Only
3
www.jainelibrary.org