SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः । SA व्यसनशब्दनिरुक्तिद्वारेण द्यूतादे|रदुरितश्रेयः प्रत्यावर्तनहेतुत्वं समर्थ्य तद्विरतस्य तत्समानफलत्वाद्धातुपातायुपव्यसनानामपि दूरपरिहरणीतामु - पदिशति जाग्रत्तीवकषायकर्कशमनस्कारार्पितैर्दुष्कृतैचैतन्यं तिरयत्तमस्तरदपि द्यूतादि यच्छ्यसः । पुंसो व्यस्यति तद्विदो व्यसनमित्याख्यान्त्यतस्तद्वतः कुर्वीटापि रसादिसिद्धिपरतां तत्सोदरी दूरगाम्॥१८॥ टीका-आख्यान्ति व्यपदिशन्ति । के ते, विदो विद्वांसः । किं तत्, द्यूतादिसप्तकं । किमाख्यान्ति, व्यसनं व्यसनमितिशब्देन व्यवहरन्तीत्यर्थः । कथं, तत् तस्मात् । यद्यस्मात्, व्यस्यति प्रत्यावर्तयति । किं तत्, द्यूतादि । कान्, 'पुंसः पुरुषान् । कस्मात्, श्रेयसः अकल्याणं प्रापयतीत्यर्थः । किं कुर्वत्,तिरयत् छादयत् । किं तत्, चैतन्यमन्तस्तत्त्वं । कैः, दुष्कृतैः पापैः । किंविशिष्टैः, जाग्रदित्यादि, जाग्रद्भिनित्योदितैस्तनिर्निवारैः कषायैः क्रोधादिभिः कर्कशदृढकर्मबन्धसम्पादनोद्यतो मनस्कारश्चित्तप्रणिधानं तेनार्पितैरात्मना संयोजितैः। किं कुर्वदपि, तरदपि अतिक्रामत् । किं तत, तमो मिथ्यात्वं । किं पुनर्मिध्यात्वे विवर्तमानमित्यपिशब्दार्थः । यत एवं तत एतस्मात् कारणात् कुर्वीत विदधीत । कोऽसौ, तद्वतः यतादिविरतिं प्रतिपन्नः । कां रसादिसिद्धिपरतामपि, न परं द्यूतादिपरतामित्यपिशब्दार्थः । किंविशिष्टां, दूरगां दूरवार्तनीं । किंविशिष्टां, यतस्तत्सोदरी द्यूतादिव्यसनसदृशीं, दुरन्तदुष्कृतबन्धश्रेयःप्रत्यावर्तनहेतुत्वाविशेषात् । रसादीत्यादिशब्देनाञ्जनगुटिकापादुकाविवरप्रवेशादि गृह्यते ॥ १८ ॥ द्यूतनिवृत्त्यतिचारमाह दोषो होढाद्यपि मनो-विनोदार्थ पणोज्झिनः । होमर्षोदयाङ्गत्वात् कषायो ह्यंहसेऽञ्जसा ॥ १९ ॥ टीका-भवति । किं तत्, होढादि । होढा परस्परस्पध था धावनादि आदिशब्देन छूतदर्शनादि । किं भवति, दोषोऽतिचारः । कस्य , पणोज्झिन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy