________________
सागारधर्मामृते
स्परसमुच्चये । तथा नायं । किं तत्, अम्बुनो गालनं । केन, दुर्वाससा अल्पसच्छिद्रजर्जरादिवस्त्रेण । तथा नार्यः। कोऽसौ,न्यासः स्थापनं । कस्य,अम्बुनः । किंविशिष्टस्य, गालितशोषितस्य वस्त्रस्रावितादुद्धरितस्य । क्व, निपाने जलाशये। किंविशिष्टे,अन्यत्र स्वाधारजलाशयादन्यास्मिन् । अथ
___“ पंचुंबरसहियाई सत्तवि वसणाइं जो विवजेइ।
सम्मत्तविसुद्दमई सो दसणसावओ भणिओ ॥" इति वसुनन्दिसैद्धान्तिमते ॥ १६ ॥ दर्शनिकस्य द्यूतादिव्यसननिवृत्तिमुपदेष्टुं तेषामिहामुत्र चापायावद्यप्रायत्वमुदाहरणद्वारेण व्याहरन्नाह
द्यूताद्धर्मतुजो बकस्य पिशितान्मद्याद्यदूनां विपचारोःकामुकया शिवस्य चुरया यब्रह्मदत्तस्य च । पापद्धया परदारतो दशमुखस्योचैरनुश्रुयते
द्यूतादिव्यसनानि घोरदुरितान्युज्झेत्तदायस्त्रिधा ॥१७|| टीका-उज्झेत् त्यजेत् । कोऽसौ, आर्यः सद्भती गृही। कथं, त्रिधा मनोवाक्कायकृतकारितानुमतैः । कानि, द्यूतादीनि व्यसनानि । द्यूतमांसमद्यवेश्याचोर्यपापचिपरदारोपसेवनानि । किंविशिष्टानि, घोरदुरितानि घोराणि दुर्गतिदुःखकारणानि दुरितानि पापानि येभ्यस्तानि । कथं, तत्तस्मात् । यद्यस्मादनुश्रूयते वृद्धपरम्परया आकर्ण्यते । का सौ, विपत् । कथम्भूता । उच्चैः प्रकृष्टा । कस्मात, घृतात् द्यूतक्रीडनात् । कस्य, धर्मतुजो धर्मपुत्रस्य युधिष्ठिरस्य । तथोचावपंर्दनुश्रूयते । कस्य,बकस्य बकनाम्नो राज्ञः । कस्मात्,पिशितात् मांसभक्षणात्। तथाच्चैर्विपदन श्रयते । केषां, यदूनां यदोरपत्यानां यादवानां । कस्मात्, मद्यात् मद्यपानात् । तथा उचैर्विपदनुश्रूयते । कस्य, चारोः चारुदत्तनाम्नः श्रेष्टिनः । कया, कामुकया वेश्योपसेवनया। तथा उच्चैर्विपदनुश्रूयते । कया, चुरया चौरिकया। कस्य, शिवभूतिनाम्नो द्विजस्य । तथा उच्चैर्विपदनुश्रयते । कस्य, ब्रह्मदत्तनाम्नोऽन्त्यचक्रवर्तिनः । कया, पापद्धर्या आखेटकेन । तथा उच्चैविपदनुश्रूयते । कस्य, दशमुखस्य रावणस्य । कुतः, परदारतः परस्त्रीगमनाभिलाषनिर्बन्धन ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org