SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः । दिषु बस्तिकर्मपिण्डप्रदाननेत्राञ्जनसेचनलताग्रासादिषु, किं पुनः स्वास्थ्यानुवृत्तिवाजीकरणादिविधिष्वित्यपिशद्वार्थः ॥ १३ ॥ पञ्चोदुम्बरविरत्यतिचारपरिहारार्थमाह सर्व फलमविज्ञातं वार्ताकादि त्वदारितम् तद्भल्लादिसिम्बीश्च खादेनोदुम्बरबती ॥ १४ ॥ टीका-न खादेन्न भक्षयेत् । कोऽसौ, उदुम्बरव्रती पिप्पलादिफलनिवृत्तः किं तत्, फलं सर्वं । किंविशिष्टम् , अविज्ञातमज्ञातनाम । तथा न खादेत् । किं तत्, वार्ताकादि। आदिशब्देन कर्चरबदरपूगफलादि। किंविशिष्टम् , अदारितमभिन्नं अशोधितमध्यमित्यर्थः । तथा भल्लादिसिम्बीः भल्लराजमाषप्रमुखफलिका न खादेत् । किंवत्, तद्वत् अदारिता इत्यर्थः ॥ १४ ॥ अनस्तमितभोजनातिचारमाह मुहूर्तेऽन्त्ये तथाऽऽद्येऽह्नो बल्भाग्नस्तमिताशिनः । गदच्छिदेऽप्याम्रघृता-धुपयोगश्च दुष्यति ॥ १५ ॥ टीका-दुष्यति दोषो भवति । कोऽसौ, वल्भा भोजनं । क, मुहूर्ते घटिका. द्वये । कस्य अह्नो दिनस्य । किंविशिष्टे, अन्त्ये पर्यन्तवर्तिनि । तथा आद्ये प्रथमे । कस्य, अनस्तमिताशिनः अनस्तमिते सूर्येऽभातीत्येवंव्रतस्य । तथा दुष्यति । कोऽसौ, आम्रघृताधुपयोगः चूतचारचोचमोचादिफलानां घृतक्षीरेक्षुरसादीनां च सेवनं । कस्यै, गदच्छिदे रोगनिवृत्त्यर्थं, किं पुनः स्वास्थ्यानु. वृत्त्याद्यर्थमित्यपिशब्दार्थः ॥ १५ ॥ जलगालनव्रतातिचारनिवृत्त्यर्थमाह-- मुहूर्तयुग्मोमगालनं वा दुर्वाससा गालनवम्बुनो वा । अन्यत्र वा गालितशेषितस्य न्यासो निपानेऽस्य न तव्रतेऽर्यः ॥१६॥ टीका-अर्च्य इति लिङ्गविपरिणामेन सम्बन्धः । न अर्घ्य निन्द्यमित्यर्थः । किं तत्, अगालनमश्रावणं । कस्य,अम्बुनो जलस्य । कथं, मुहूर्तयुग्मोचं घटिकाचतुष्टयादुपरि । क्व, तद्रते गालितजलपाननिष्ठायां । वाशब्दास्त्रयोऽपि पर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy