________________
सागारधर्मामृते
जायन्तेऽनन्तशो यत्र प्राणिनो रसकायिकाः ।
सन्धानानि न वल्भ्यन्ते तानि सर्वाणि भक्तिकाः ॥ तथा त्यजेत् । किं तत्, दधितकं दधि च मथितं च । किंविशिष्टं, पुष्पितं ब्यहोषितं अहोरात्रिद्वयमतिक्रान्तं। तथा त्यजेत् कांजिकं, धान्याम्लं, सपुष्पमिव जातं । अपिशब्दाद्वयहोषितं च । अन्यथा उक्तविपर्यये । भवति । कोऽसौ, मद्यवतमल: मद्यविरत्यतिचारः ॥ ११ ॥ मांसविरत्यतिचारानाह
चर्मस्थमम्भः स्नेहश्च हिंग्यसंहृतचर्म च ।
सर्व च भोज्यं व्यापनं दोषः स्यादामिषत्रते ॥ १२ ॥ टीका-~-स्यात् भवेत् । किं तत्, चर्मस्थमम्भःप्रमुखमुपयुज्यमानं । किं स्यात्, दोषोऽतिचारः । क्व, आमिषव्रते मांसविरतौ प्रतिपन्नायां । किं किं तदित्याह-अम्भो जलं, हश्च घृतादिकं दोषः स्यात्। किंविशिष्टं,चर्मस्थं दृत्यादिस्थं जलं कुतुपादिस्थं च घृतादिकमुपयुज्यमानं । एतेन खट्टिकायादिस्थवञ्चटिकादिस्थचूतफलादीनां चर्मोपनद्धचालनीशूर्पटिकाद्युपस्कृतकणिकादीनां च त्याज्यतामुपलक्षयति । तथा हिंगु रामठं दोषः स्यात् । किंविशिष्टम्, असंहतचर्म असंहृतं स्वस्वभावेनापरिणामितं चर्म येन तत् 'असंवृतचर्मेति वा पाठः । तत्र चर्मणा छादितं चर्मणि बद्धं प्रसारितं वा रामठं न गृह्णीयादिति भावः। उपलक्षणमेतत् । तेन तथाभूतं लवणाद्यपि । तथा भोज्यं भक्तघृतादि सर्वं । किंविशिष्टं, व्यापन्नं कुथितं स्वादचलितमिनि गावत् ॥ १२ ॥ मधुव्रतातिचारनिवृत्त्यर्थमाह
प्रायः पुष्पाणि नाश्नीयान्मधुव्रतविशुद्धये ।
बस्त्यादिष्वपि मध्वादि-प्रयोगं नाहति व्रती ॥ १३ ॥ टीका-नाश्नीयात् न भक्षयेत् मधुविरतः । कानि, पुष्पाणि । किमर्थं, मधुव्रतविशुद्धये क्षौद्रविरत्यतिचारनिवृत्त्यर्थं । कथं, प्रायः । तेन मधूकभल्लातकपुष्पाणां शक्यशोधनत्वान्नात्यंतनिषेधः । शुष्कत्वान्नागकेसरादीनामपीति लक्षयति । तथा नाहति न कर्तु योग्यो भवति । कोऽसौ, व्रती मधुमांसमधेभ्यो. तिशयेन निवृत्तः । कं, मध्वादिप्रयोगं माक्षिकमांसमद्योपयोगं । केषु, बस्त्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org