SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तृतीयोध्यायः । स्ववर्णकुलव्रतानुरूपां । किमर्थं तनुस्थित्यै शरीरवर्तनार्थं न विषयोपसेवनार्थं एवंविधलक्षणो दर्शनिको नाम श्रावको मन्यते ॥ ७८ ॥ न , अथ मद्यादिवतद्योतनार्थं तद्विक्रयादिप्रतिषेधार्थमाहमद्यादिविक्रयादीनि नार्यः कुर्यान्न कारयेत् । न चानुमन्येत मनोवाक्कायैस्ततद्युते ॥ ९ ॥ टीका- कुर्यात् । कोऽसौ, आर्यो दर्शनिकः । कानि, मद्यादिविक्रया-दीनि मद्यादीनां मद्यमांसमधुनवनीतप्रभृतीनां विक्रयादीनि आदिशब्दात्सन्धानक संस्कारोपदेशाद्युपादानं । तथा न कारयेत् । न चानुमन्येत नाप्यनुमतिं दद्यात् । कै मनोवाक्कायैः मनसा वाचा कायेन च । किमर्थं ततद्युते मद्यविरत्याद्यष्टमूलगुणनिर्मलीकरणार्थम् ॥ ९ ॥ यच्छीलनान्मद्यदिद्व्रतक्षतिः स्यात्तदुपदेशार्थमाह-भजन्मद्यादिभाजस्त्री - स्तादृशैः सह संसृजन् । " I भुक्त्यादौ चैति साकीर्तिं मद्यादिविरतिक्षतिम् ॥ १०॥ टीका -- एति गच्छति । कोऽसौ व्रती पुमान् । कां, मद्योदिविरतिक्षतिम् अष्टमूलगुणहानिं । किंविशिष्टां, साकीर्ति वाच्यतासहितां । किं कुर्वन्, भजन् सेवमानः । काः, स्त्रीः । किंविशिष्टाः, मद्यादिभाजो मद्यमांसादिसेविनीः । न केवलं ता भजन् संसृजश्च संसर्गं कुर्वन् । कैः सह, ताशैर्मद्यादिभाग्भिः पुम्भिः । क्व, भुक्त्यादौ भोजनभाजनासनादौ ॥ १० ॥ एवं सामान्यतो मूलवता तिचारनिवृत्तिमभिधाय मयादितातिचारनिवृ-त्यर्थमाह- ७५. सन्धानकं त्यजेत्सर्व दधि तक्रं द्वयोषितम् । काञ्जिकं पुष्पितमपि मद्यत्रतमलोsन्यथा ॥ ११ ॥ टीका -- त्यजेत् । कोऽसौ दर्शनिकः । किं तत्, संधानकं । किंविशिष्ट, सर्वं । एतेन काञ्जिकवटकादेरपि हेयत्वं दर्शयति । उक्तं च- १ मयादिस्वादिगेहेषु पानमन्नं च नाचरेत् । तदामत्रादिसम्पर्क न कुर्वीत कदाचन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy