________________
७४
सागारधर्मामृतेएवं स्थलशुद्धिं विधायाधुना दर्शनिकस्वरूपनिरूपणार्थ श्लोकद्वयमाह
पाक्षिकाचारसंस्कार-दृढीकृतविशुद्धदृक् । भवाङ्गबोधनिर्विण्णः परमेष्टिपदैकधीः ॥७॥ निर्मूलयन्मलान्मूल-गुणेष्वग्रगुणोत्सुकः। न्याय्यां कृत्तिं तनुस्थित्यै तन्वन्दर्शनिको मतः ॥ ८॥
युग्मं । टीका-मतः एवम्भूतनयादिष्टः सूरिभिः । एतेन नैगमनलादेशात्पाक्षिकस्यापि दर्शनिकत्वमनुज्ञातं भवति । ततो न ' श्रावकपदानि देवैरेकादश देशितानी'त्यनेन विरोधः, पाक्षिकस्य द्रव्यतो दर्शनिकत्वात् । कोऽसौ, मतः दर्शनिक: । किंलक्षणः, पाक्षिकाचारस्य पूर्वाध्याये प्रपञ्चेनोक्तस्य संस्कार उत्कर्षस्तन दृढीकृता निश्चलत्वं नीता विशुद्धा निर्दोषा दृक् दर्शनं येन स पाक्षिकाचारसंस्कारदृढीकृतविशुद्धदक्, तथा भवाङ्गभोगनिर्विण्णः भवाङ्ग. भोगाः संसारशरीरेष्टविषयाः, अथवा भवाङ्गं संसारकारणं यो भोगो गृद्धिपूर्वकं कामिन्यादिविषयसेवनं ततो निर्विण्णो विरक्तः प्रत्याख्यानावरणाख्यचारित्रमोहकर्मविपाकवशात् कामिन्यादिविषयान् भजन्नपि तत्राकृतसेवानिबन्ध इत्यर्थः, तथा परमेष्ठिपदैकधीः परमेष्ठिपदेषु अईदादिपञ्चगुरुचरणेषु एका धीरन्तदृष्टिर्यस्य स तथोक्तः । आपदाकुलितोऽपि दर्शनिकस्तन्निवृत्त्यर्थ शासनदेवतादनि कदाचिदपि न भजते । पाक्षिकस्तु भजत्यपीत्येवमर्थमेकग्रहणम् । तथा निर्मूलयन् मूलादपिनिरस्यन् । कान्, मलान् अतिचारान् । केषु, मूलगुणेषु तथा अग्रगुणोत्सुकः अग्रगुणे व्रतिकपदे उत्सुकोऽनुष्ठातुमत्क. ण्ठितः । तथा तन्वन्ननुबध्नन् । कां, वृत्तिं कृष्यादिवोता। किंविशिष्टां,न्याय्यां
१ आदावेते स्फुटमिह गुणा निर्मला धारणीयाः पापध्वंसि व्रततपमलं कुर्वता श्रावकीयम् । कर्तुं शक्यं स्थिरमुरुभरं मन्दिरं गर्तपूरं न स्थेयोभिदृढतममृते निमित्तं ग्रावजालैः ।। २ कृषि वणिज्यां गोरक्ष्यमुपायैगुणिनं नृपम् । लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org