________________
तृतीयोध्यायः ।
टीका--स्याद्भवेत् गृही। किंविशिष्टः, पाक्षिको न नैष्ठिकः । किंविशिष्टः सन्, उत्सुकः सोत्कण्ठाभिलाषः । क्व, विषये इन्द्रियार्थे । किंविशिष्टे, क्वचित् कामिन्यादीनामन्यतमे न सर्वत्र । कदा, जातु कदाचिन्न सर्वदा । कस्मात् , दुर्लेश्याभिभवात् दुर्लेश्यया कृष्णनीलकापोतीनामन्यतमया अभिभवः कुतश्चिन्निमित्ताच्चेतनशक्तेस्ताहसंस्कारोद्बोधस्तस्माद्धेतोः तं वाऽऽश्रित्य । न केवलं तथा भवन् । स्खलन्नपि अतिचारं गच्छंश्च अनभ्यस्तपूर्वत्वात्संयमस्य दुर्धरत्वाद्वा मनसः । क्व, गुणे । किंविशिष्टे, क्वापि मद्यविरत्यादीनामन्यतमे न सर्वत्र ।। ४ ॥
दर्शनिकादीनामा स्वस्वानुष्ठानदााद्रव्यत एव दर्शनिकादिव्यपदेशः स्याद्भावतस्तु पूर्वपूर्वोऽसाविति बोधयन्नाह
तद्वदर्शनिकादिश्च स्थैर्य स्खे स्वे व्रतेऽत्रजन् । ___लभते पूर्वमेवार्थाद्वयपदेशं न तूत्तरम् ॥ ५॥
टीका-लभते । कोऽसौ, दर्शनिकादिश्च दर्शनिकवतिकादिरपि श्रावकविकल्पः । कं, व्यपदेशं सज्ञां । किंविशिष्टं,पूर्वमेव प्राक्तनमेव । न तु न पुनः । उत्तरं परापेक्षया परं । कस्मात्, अर्थात् परमार्थतो व्यवहारादुत्तरमपि लभते । किंवत्, तद्वत् नैष्टिकमात्रवत् । किं कुर्वन्, अव्रजन् अगच्छन् । किं तत्, स्थैर्य स्थिरत्वं क्वचित्कदाचित्कथांचदचलनम् । क्व, स्वे स्वे व्रते निरतिचाराष्टमूलगुणादिलक्षणे ॥५॥ एतदेव समर्थयितुमाह
प्रारब्धो घटमानो निष्पन्नश्चाहतस्य देशयमः ।
योग इव भवति यस्य त्रिधा स योगीव देशयमी ॥६॥ टीका-भवति । कोऽसौ, स देशयमी श्रावकः । कतिधा, त्रिधा त्रिप्रकारः। क इव, योगीव यथा प्रारब्धयोगो घटमानयोगो निष्पन्नयोगश्चेति नैगमादिनयापेक्षया विविधो योगी तथा प्रारब्धदेशसंयमो घटमानदे. शसंयमो निष्पन्नदेशसंयमश्चेति त्रिविधः श्रावकोऽपि स्यादित्यर्थः । यस्य किं, यस्याहतस्य जिनैकशरणस्य सतो भवति । कोऽसौ, देशयमो देशसंयमः । किंविशिष्टः, प्रारब्ध उपक्रान्तः, तथा घटमानः सम्पद्यमानः, तथा निप्पन्नः पर्यन्तं प्राप्तः, क इव, योग इव समाधियथा ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org