________________
७२
सागारधर्मामृतेचेति । प्रशस्ता लेश्या यस्यासौ सुलेश्यः प्रकृष्टः पाक्षिकापेक्षया सुलेश्यः । सुलेश्यतरः अथवा सर्वेऽपि यथोत्तरं विशुद्धतरलेश्याः स्युः ॥ १॥
दर्शनिकादीनुद्दिशंस्तेषां गृहित्वब्रह्मचारित्वभिक्षुकत्वानि जघन्यमध्यमात्तेमत्वाच्च विभक्तुमार्याद्वयमाहदर्शनिकोऽथ बतिकः सामयिकी प्रोषधोपवासी च । सचित्तदिवामैथुन-विरतो गृहिणोऽणुयमिषु हीनाः षट्।।२।। अब्रह्मारम्भपरि-ग्रहविरता वर्णिनस्त्रयो मध्या। अनुमतिविरतोद्दिष्टवि-रतावुभौ भिक्षुको प्रकृष्टौ च।।३।।
युग्मं ।
टीका-अथशब्दोऽत्रानन्तर्यार्थः प्रत्येकं योज्यः । भवान्त । के, श्रावकाः। कति, षट् । किंविशिष्टा भवन्ति, हीना जघन्याः । केषु मध्ये, अणुयमिषु । श्रावकेषु न केवलं हीनाः गृहिणश्च । कः कः, दर्शनिकोऽथानन्तरं व्रतिकस्ततः सामयिकी तदनु प्रोषधोपवासी तदनन्तरं सचित्तविरतोऽपि दिवामैथुनविरतश्च । भवन्ति । के ते, त्रयः । किंविशिष्टा, मध्याः अणुयमिषु मध्ये मध्यमाः । पुनःकिंविशिष्टा, वर्णिनो ब्रह्मचारिणः । कति, त्रयः । किमाख्या, अब्रह्मारम्भपरिग्रहविरता अब्रम्हविरतः, आरम्भविरतः परिग्रहविरतश्च । तदनन्तरं भवतः । को, उभौ। किंविशिष्टौ, प्रकृष्टौ अणुयमिषु मध्ये उत्कृष्टौ । पुनः किंविशिष्टौ, भिक्षुकौ । अल्पा भिक्षा यत्यपेक्षया ययोस्तौ । किमाख्यौ, अनुमतिविरतोद्दिष्टविरतौ ॥ २॥३॥ नैष्ठिकोऽपि यादृशः सन् पाक्षिकव्यपदेशमेव लभते तादृशं दर्शयति
दुर्लेश्याभिभवाजातु विषये कचिदुत्सुकः । स्खलन्नपि कापि गुणे पाक्षिकः स्यान नैष्ठिकः॥४॥
१ षडत्र गृहिणो ज्ञेयास्त्रयः स्युर्ब्रम्हचारिणः । भिक्षुको द्वौ तु निर्दिष्टौ ततः स्यात्सर्वतो यतिः ॥ आद्यास्तु षड् जघन्याः स्युमध्यमास्तदनु त्रयः । शेषौ द्वावुत्तमावुक्तौ जनेषु जिनशासने ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org