________________
तृतीयोध्यायः।
रञ्जिता योगप्रवृत्ति: सैषा भावतः, द्रव्यतस्तु शरीरच्छविलेश्या । सा च द्वितय्यपि कृष्णादिभेदेन षोढा, कृष्णा नीला कापोती पीता पद्मा शुक्ला
निर्मूलस्कन्धयोश्छेत्तुं भावाः शाखोपशाखयोः । उच्चये पतितादाने भावलेश्या फलार्थिनाम् ॥ षट्पट् चतुर्पु विज्ञेयास्तिस्रास्तिस्रः शुभास्त्रिषु । शुक्ला गुणेषु षट्स्वेका लेश्या निर्लेश्यमन्तिमम् ॥ रागद्वेषग्रहाविष्टो दुर्ग्रहो दुष्टमानसः । क्रोधमानादिभिस्तीत्रैर्ग्रस्तोऽनन्तानुबन्धिभिः ॥ निर्दयो निरनुक्रोशो मद्यमांसादिलम्पटः । सर्वदा कदनासक्तः कृष्णलेश्यान्वितो जनः॥ कोपी मानी मायी लोभी । रागी द्वेषी मोही शोकी । हिंस्रः करश्चण्डश्चौरो । मूर्खः स्तब्धः स्पर्धाकारी ।। निद्रालुः कामुको मन्दः कृत्याकृत्याविचारकः । महामूर्ची महारम्भो नीललेश्यो निगद्यते ॥ शोकभीमत्सरासूयावरनिन्दापरायणः। प्रशंसति सदाऽऽत्मानं स्तूयमानः प्रहृष्यति ॥ वृद्धिहानी न जानाति न मूढः स्वपरान्तरम् । अहङ्कार ग्रहग्रस्तः समस्तां कुरुते क्रियाम् ॥ श्लाधितो नितरां दत्ते रणे मर्तुमपीहते । परकीययशोध्वंसी युक्तः कापोतलेश्यया ॥ समदृष्टिरविद्वेषो हिताहितविवेचकः। वदान्यः सदयो दक्षः पीतलेश्यो महामनाः ॥ शुचिदीनरतो भद्रो विनीतात्मा प्रियंवदः। साधुपूजोद्यतः साधुः पद्मलेश्यो नयक्रियः ॥ निर्णिदानोऽनहंकारः पक्षपातोज्झितोऽशठः । रागद्वेषपराचीनः शुक्ललेश्यः स्थिराशयः ॥ तेजः पद्मा तथा शुक्ला लेश्यास्तिस्रः प्रशस्तिकाः। संवेगमुत्तमं प्राप्तः क्रमेण प्रतिपद्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org