SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ • तृतीयोऽध्यायः । नैष्ठिकलक्षणमाह- देशयमन्नकषायक्षयोपशमतारतम्यवशतः स्यात् । दर्शनिकाद्येकादशदशावशो नैष्ठिकः सुलेश्यतरः ॥ १ ॥ टीका- स्याद्भवेत् । कोऽसौ नैष्ठिकः श्रावकः । किंविशिष्टो, दर्शनिकाद्येकादश दशावशः, दर्शनं निर्मलमद्यादिविरत्या हितातिशयं सम्यक्त्वमस्यास्तीति अतिशायने ठावत' इति ठः । एवं व्रतिकादित्रयो व्युत्पाद्याः । दर्शनिक आदिर्यासां व्रतिकादीनां ता दर्शनिकादय एकादशदशाः श्रावकसंयमस्था. नानि, तासां वशः पारतंत्र्यं यस्य स घटमानदेश संयम इत्यर्थः । कस्मात्, देशेत्यादि - देशयमघ्ना अप्रत्याख्यानावरणाख्याः कषायाः क्रोधादयस्तेषां क्षयेनोदयाभावेन प्रत्याख्यानावरणकषायोदय विशिष्टेन युक्त उपशमः सदवस्था तत्क्षयोपशमस्तस्य तारतम्यं यथोत्तरमुत्कर्षस्तद्वशतस्तत्पारतन्त्र्यात् । पुनः किंविशिष्टः स्यात्, सुलेश्यतरः । लिंपति स्वीकरोति पुण्यपापे स्वयं जीवो यया सा लेश्या, अथवा लिशत्यल्पी करोत्यात्मानमिति लेश्या कषायोदय Jain Education International , १ लिम्पत्यात्मीकरोत्यात्मा पुण्यपापे यया स्वयम् । सा लेश्येत्युच्यते सद्भिर्द्विविधा द्रव्यभावतः ॥ प्रवृत्तियौगिकी लेश्या कषायोदयरञ्जिता । भावतो द्रव्यतो देहच्छवि षोढोभयी मता ॥ कृष्णा नीलाऽथ कापोती पीता पद्मा सिता स्मृता । लेश्या षड्भिः सदा ताभिगृह्यते कर्म जन्मिभिः || योगाविर तिमिथ्यात्व कषायजनितोऽगिनाम् । संस्कारो भावलेश्याऽस्ति कल्माषात्रवकारणम् ॥ कापोती कथिता तीव्रो नीला तीव्रतरो जिनैः । कृष्णा तीव्रतमो लेश्या परिणामः शरीरिणाम् ॥ पीता निवेदिता मन्दः पद्मा मन्दतरो बुधैः । शुक्ला मन्दतमस्तासां वृद्धिः षट्स्थानयायिनी ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy