________________
द्वितीयोध्यायः ।
एवंविधाचारपरस्य श्रावकस्योत्तरोत्तरभूमिकाश्रयणेन सकलविरतिपदाधिरोहणविधिमुपदिशति
सैषः प्राथमकल्पिको जिनवचोऽभ्यासामृतेनासकृनिर्वेदद्रुममावपन् शमरसोदारोंडुरं बिभ्रति । पाकं कालिकमुत्तरोत्तरमहान्त्येतस्य चर्याफला
न्यास्वाद्योधतशक्तिरुद्धचरितमासादमारोहतु ॥ ८७॥ टीका-आरोहतु चटतु। कोऽसौ, सैषः स एवेत्यर्थः । पादपूरणेऽत्र सेर्लोपः। कोऽसौ, प्राथमकल्पिकः प्रारब्धदेशसंयमः । कमारोहतु, उद्धचरितप्रासाद सल्लेखनान्तयतिधर्मसौधं । किंविशिष्टः सन्, उद्यतशक्तिरुद्भूतसामर्थ्यः । किं कृत्वा, आस्वाद्यानुभूय । कानि, चर्याफलानि दर्शनिकादिप्रतिमाफलानि । कस्य, एतस्य निर्वेदद्रुमस्य । किंविशिष्टानि, उत्तरोत्तरमहान्ति यथोत्तरं पृथूनि । किं कुर्वन्ति, बिभ्रति धारयन्ति । किं, पाकमात्मीयपरिणतिं परिपाकं च । किंविशिष्टं, कालिकं कालकृतं । पुनः किंविशिष्टं, शमरसोगारोऽदुरं शमः प्रशमसुखं स एव रसो रसनेन्द्रियग्राह्यो गुणस्तस्योद्गारोऽभिव्यक्तिस्तेनोध्दुरमुत्करं स एव वा उद्धरौ यत्र । किं कुर्वन्, आवपन् सिञ्चन् पोषयन् । कं, निर्वेदमं संसारशरीरभोगवैराग्यवृक्षं । केन, जिनवचोऽभ्यासामृतेन जिनागमभावनापीयूषेण । कथम्, असकृदभीक्ष्णमिति भद्गम् ॥ ८७ ॥
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसामारधर्म दीपिकायां
भव्यकुमुदचन्द्रिकासज्ञायामादित एकादशः प्रक्रमाच्च द्वितीयोऽध्यायः समाप्तः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org