SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते स्थूललक्षः क्रियास्तीर्थ-यात्राया दृग्विशुद्धये । कुर्यात्तथेष्टभोज्याद्याः प्रीत्या लोकानुवृत्तये ॥ ८४ ॥ टीका---कुर्यात् । कोऽसौ, स्थूललक्षः स्थूलं व्यवहारं लक्षयत्यालोचयतीति स्थूललक्षो व्यवहारप्रधानो बहुप्रदश्च गृही। काः, क्रियाः। किंविशिष्टाः, तीर्थयात्राद्याः तीर्थान्यूर्जयन्तादीनि पुण्यपुरुषाध्युषितस्थानानि तेषु यात्रा गमनं, आद्यशब्देन रथयात्राक्षपकयात्रानिषिद्धिकागमनादयः, तीर्थयात्रा आद्या यासु ताः । किमर्थ, दृग्विशुद्धये सम्यक्त्वनिर्मलीकरणा) । तथा स्थूललक्षः क्रियाः कुर्यात् । किंविशिष्टाः, इष्टभोज्याद्याः इष्टाः सधर्माणः स्वजना मित्रादयो भोज्यन्ते स्वगृहे भोजनं कार्यन्ते यस्यां सा इष्टभोज्या क्रिया, सा आद्या आसु अतिथिपूजनभूतबल्यादिक्रियासु ताः । कया, प्रीत्या हषेण नोद्वेगेन । किमर्थं, लोकानुवृत्तये लोकचिन्तावर्जनार्थम् ॥ ८४ ॥ श्रेयोऽर्थिनः कीर्तेरप्यर्जनीयत्वमाह-- अकीया तप्यते चेतश्चेतस्तापोऽशुभास्रवः । तत्तत्प्रसादाय सदा श्रेयसे कीर्तिमर्जयेत् ।।८५॥ टीका--तप्यते संक्लिश्यते । किं तत्, चेतश्चित्तं । कया, अकीर्त्या अयशसा । भवति च । कोऽसौ, चेतस्तापो मनःकालुष्यं । किंविशिष्टो,ऽशुभास्त्रवः पापहेतुः । यत एवं तत्तस्मात्कारणात् । अर्जयेत् उपार्जयेत् । गृही। कां, कीर्ति । कथं, सदा । कस्मै, तत्प्रसादाय चेतःप्रसत्त्यर्थम् । कस्मै तत्प्रसादः, श्रेयसे । अथवा श्रेयसे। पुण्यकारणाय तत्प्रसादायेति व्याख्येयम्॥८५॥ कीर्युपार्जनोपायमाह-- परासाधारणान्गुण्य-प्रगण्यानघमर्षणान् । गुणान् विस्तारयेन्नित्यं कीर्तिविस्तारणोद्यतः।। ८६ ॥ टीकाः-विस्तारयद्विपुलीकुर्यात् । कोऽसो, कीर्तिविस्तारणोद्यतो यशःप्रसारणतत्परः । कान्, गुणान् दानसत्यशौचशीलादीन् । किंविशिष्टान्, परासाधारणान अनन्यसदृशान् । पुनः किंविशिष्टान्, गुण्यप्रगण्यान् गुणवद्भिः प्रकर्षण माननीयान् । पुनरपि किंविशिष्टान्, अघमर्षणान् पापविध्वांसनः ॥ ८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy