________________
द्वितीयोध्यायः।
टीका--त्यजेत् परिहरेत् । कोऽसौ, सुधी: शास्त्रबलेन हिंसायाः फलमेतदिति निश्चितमतिः । कां, हिंसां प्राणातिपातं । किंविशिष्टां, साङ्कल्पिकी अमुं जन्तुमासाद्यार्थित्वेन हन्मीति सङ्कल्पपूर्विकां । आरम्भजा तु हिंसाऽशक्यप्रत्याख्यानेति तत्र यतनामेव कुर्यादिति भावः । क्व सति, आरम्भेऽपि कृप्यादिकर्मण्यपि प्रवर्तमानः । कथं, सदा नित्यं । हि यस्मात् भवति । कोऽसौ, "धीवरो मात्स्यिकः । किंविशिष्टः, उच्चः पापः उत्कृष्टपातकी। किं कुर्वन्नपि, बहून्मत्स्यान् हनिप्यामोत्यभिध्यानेन प्रवृत्तोऽमारयन्नपि । कस्मात्, कर्षकात् कर्षणप्रवृत्तात् । किं कुर्वतो, नतोऽपि देवब्राह्मणकुटुम्बाद्यर्थ धान्यमुत्पादयिप्यामीति अभिध्यानविशेषेण प्रवृत्तादहूनपि मारयतः ॥ ८२ ॥ परैर्विधेयतया व्यवस्थाप्यमानं हिंस्रादिप्राणिनां बधं प्रतिविधातुमाहहिंस्रदुःखिसुखिप्राणि-घातं कुर्यान्न जातुचित् ।
अतिप्रसङ्गश्वभ्रार्ति-सुखोच्छेदसमीक्षणात् ।। ८३ ॥ टीका-न कुर्यात् श्रेयोऽर्थी । कं, हिंस्रदुःखिसुखिप्राणिघातं । कथं, जातुचित् कदाचिदपि । कुतः, अतीत्यादि-हिंस्रा व्याघ्रादयः । अत्र केचिदाहुः, हिंस्रजीवा हन्तव्याः । हिंसे ह्येकस्मिन्हते भूयसां रक्षा कृता भवति । ततश्च 'धर्माधिगमः पापोपरमश्च स्यात् । तदयुक्तमतिप्रसङ्गात् । सर्वेषां प्राणिनां हिंस्रतया हन्तव्यतानुषङ्गात् । तथा च लाभमिच्छतां तथावादिनां मूलोच्छेदः स्यात् । न च बहुरक्षणाभिप्रायेणापि हिंस्रं हिंसतो धर्मः पापोच्छेदो वा युज्येत । दयामूलत्वात्तयोः । यच्च संसारमोचकः प्रचक्षते दुःखिनो जीवा हन्तब्यास्तेषां विनाशे दुःखविनाशसम्भवादिति; तदप्ययुक्तं । तेषां स्वल्पदुःखानां निहतानां नरकेऽनन्तदुःखे संयोजनाया दुर्निवारत्वात् । अन्ये त्वाहुः-सुखिनो हन्तव्याः यतः संसारे सुखं दुर्लभं । सुखिनश्च हताः सुखिन एव भवन्तीति तदप्यसङ्गतं। सुखिनां हन्यमानानां दुःखावेशेन सुखोच्छेदस्यावश्यम्भावात् । दुःखमृत्युना च दुर्थ्यानानुसन्धानाहुरन्तदुर्गातदुःखावनिर्वर्तनात् । तदलमतिप्रसङ्गेन । स्वगता परगता वा यथाकथञ्चित्क्रियमाणा हिंसा न धर्माय स्यात् । किं तर्हि, पातकसम्भवायैवेति प्रतिपद्यमानैर्यथाशक्ति तत्परित्यागे धर्मार्थिभिः सन्ततं यतितव्यमिति आप्तसूक्तोपनिषत् ॥ ८३ ॥
अथ पाक्षिकस्य दृग्विशुद्धयर्थी लोकानुवृत्त्यर्थाश्च क्रियाः कृत्यतयोपदिशति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org