________________
६६
सागारधर्मामृते
.
.
.
.
.
.
.
.
.
तथा प्रत्यवस्थाप्यं प्रायश्चित्तविधिना पुनरनुसन्धेयं व्रतं । कथम् , अञ्जसा सद्य एव । किंविशिष्टं तत्, छिन्नम् अतिचरितं । कस्मात्, दर्पात् मदावेशात् प्रमादाद्वाऽनवधानात् ॥ ७९ ॥ किं व्रतमित्याह--
सङ्कल्पपूर्वकः सेव्ये नियमोऽशुभकर्मणः ।
निवृत्तिर्वा व्रतं स्याद्वा प्रवृत्तिः शुभकर्मणि ॥ ८० ॥ टीका--स्याद्भवेत् । किं तत्, व्रतं । किं, नियमः प्रत्याख्यानं । क्व, सेव्ये स्वदारताम्बूलादौ । किंविशिष्टः, संकल्पपूर्वकः, इदमियदेतावन्तं कालं न सेविष्येऽहमिति मनसाऽध्यवसायं कृत्वा इत्यर्थः । अथवा अहमिदमियदेतावन्तं कालं सेविष्याम्यवेति सङ्कल्पेन नियमः प्रतिज्ञा व्रतं स्यात् । अथवा व्रतं स्यात् । किं, निवृत्तिः विरतिः । कस्मात्,अशुभकर्मणो हिंसादेः । किंवि. शिष्टा, सङ्कल्पपूर्विकेति लिङ्गपरिणामेन सम्बन्धः । अथवा व्रतं स्यात् । किं, प्रवृत्तिराचरणं । क्व, शुभकर्मणि पात्रदानादौ । सङ्कल्पपूर्विकेत्यत्रापि योज्यम् ॥ ८० ॥ विशिष्टागमप्रत्ययावष्टम्भात्प्राणिरक्षाविधिमनुशास्ति---
न हिंस्यात्सर्वभूतानीत्यारे धर्म प्रमाणयन् ।
सागसोऽपि सदा रक्षेच्छक्त्या किं नु निरागसः ॥८१॥ टीका--रक्षेत् पालयेत् । कोऽसौ, धर्मी धार्मिकः । कान् , सागसोऽपि सापराधानपि जीवान् । कया, शक्त्या यथाशक्ति । किं निमित्तं, धर्मे धर्मनिमित्तं । क्व, सदा सर्वस्मिन् काले । किं नु निरागसो निरपराधान् विशेषतो रक्षेदित्यर्थः । किं कुर्वन् , प्रमाणयन् अविसंवादयन् इदमेवमित्थमेवेति प्रतिपद्यमानः । किं तत्, आर्ष ऋषिभिः प्रोक्तं शास्त्रं । किंरूपमित्याह-इति एवं रूपं । न हिंस्यात् न हन्यात् । कोऽसौ, श्रेयोऽर्थी । कानि, सर्वभूतानि सर्वान् त्रसस्थावरजीवान् ॥ ८१ ॥ साङ्कल्पिकहिंसापरित्यागमुपदिश्यार्थान्तरन्यासेन समर्थयते
आरम्भेऽपि सदा हिंसां सुधीः साङ्कल्पिकी त्यजेत् । नतोऽपि कर्षकादुच्चःपापोऽनन्नपि धीवरः ।।८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org