________________
द्वितीयोध्यायः।
NR...
सेव्यानामप्यर्थानां सेवायामसम्भवत्त्यां कालपरिस्थित्या प्रत्याख्येयता मुपदिश्य तत्प्रत्याख्यानं फलवत्तया समर्थयते
यावन्न सेव्या विषयास्तावत्तानाप्रवृत्तितः।
व्रतयेत्सवतो दैवान्मृतोऽमुत्र सुखायते ॥ ७७ ॥ टीका--आप्रवृत्तितो व्रतयेत् आप्रवृत्तेर्निवृत्तिर्मेऽस्य ताम्बूलादेरिति नियमयेद्गही । कान् , तान् ताम्बूलकामिन्यादिविषयान् । कथं, तावत् तावन्तं कालं यावनिक, यावन्तं कालं । न सेव्या न सेवितुं सम्भाव्या: । के ते, विषयाः । एवं कृते किं फलं स्यादित्याह-सुखायते सुखमनुभवति । कोऽसौ, स तथा कृतनियमः । क्व, अमुत्र परलोके। किंविशिष्टो, मृतः । कस्मात् , दैवात् कर्मवशात् । किंविशिष्टः सन्, सव्रतस्तथावतभावितः॥७७॥ तपश्चर्य च शक्तित इत्युक्तं तद्विशेषविधिमभिधत्ते----
पञ्चम्यादिविधिं कृत्वा शिवान्ताभ्युदयप्रदम् ।
उद्योतयेद्यथासम्पनिमित्त प्रोत्सहेन्मनः ॥ ७८॥ टीकाः---उद्योतयेत् उद्यापयेत् । कं, पञ्चम्यादिविधि पञ्चम्यां पुष्पाञ्जलिमुक्तावलिरत्नत्रयादिविधानं । किंविशिष्टं, शिवान्ताभ्युदयप्रदं निःश्रेयसावसानशक्रचक्रधरादिपदसम्पादकं । किं, कृत्वा यथाम्नायं परिसमाप्य । कथम् उद्योतयेत्, यथासम्पद्यथाविभवं । ननु नित्यानुष्ठाने सत्यपि किमिदमनुष्ठीयते इत्याह-प्रोत्सहेत् नित्यानुष्ठानापेक्षया प्रकर्षणोत्साहं गच्छेत् मनश्चित्तं ! क्व, निमित्ते नैमित्तिकानुष्टाने ॥ ७८ ॥ अथ व्रतग्रहणरक्षणच्छेदोपस्थापनविधीनुपदिशति
समीक्ष्य व्रतमादेयमात्तं पाल्यं प्रयत्नतः ।
छिन्नं दीप्रमादादा प्रत्यवस्थाप्यमञ्जसा ॥ ७९ ॥ टीका--आदेयं ग्राह्यं श्रेयोऽर्थिना । किं तत्, व्रतं । किं कृत्वा, समीक्ष्य आत्मानं देशकालस्थानसहायादींश्च सम्यगालोच्य । तथा पाल्यं रक्षणीय व्रतं । किंविशिष्टम्, आत्तं तथा गृहीतं । कस्मात्, प्रयत्नतः प्रकृष्टयतनया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org