________________
सागारधर्मामृते
केषां देहिनां प्राणिनां । किं कुर्वतां, बिभ्यतां त्रस्यतां । कस्मात्, दुःखात् देहमनस्तापात् । कियतां सर्वेषां । किम्, अनुते, सौरूप्यं रूपातिशयं । उपल क्षणात्स्थैर्य गाम्भीर्य तेजस्वित्वमादेयत्वं सौभाग्यं सौम्यत्वं त्यागित्वं भोगित्वं यशस्वित्वं निरामयत्वं चिरजीवित्वमित्यादिलोक्तोत्तरगुणग्राम। किंविशिष्टःसन् , निर्भीः सर्वतो भयरहितः । किंविशिष्टोऽसौ, दयार्द्रः करुणामृदुहृदयः । पुनः किंविशिष्टो, दातृधौरेयः अन्नादिदातणामग्रणीः । धर्मार्थकाममोक्षाणां जीवितमूलत्वाजीवितप्रदः किमभिमतं न ददातीति भावः ॥ ७५ ॥
अथ कर्मधर्म्यमित्यादि प्राक् सूत्रितं प्रपञ्चयन् श्रितभरणकृपादानपुरस्सरं दिवाभोजनमुपदिशन्नीरादीनां रात्रावप्यप्रत्याख्येयतामाख्याति--
भृत्वाऽऽश्रितानवृत्त्याऽऽर्तान्कृपायाऽनाश्रितानपि।। भुञ्जीतान्ह्यम्बुभैषज्य-ताम्बूलैलादि निश्यपि ॥ ७६ ।।
टीका--भुञ्जीत ओदनादिकमुपयुञ्जीत गृही । क्व, अन्हि दिने । किं कृत्वा, भृत्वा पोषयित्वा । कान्, आश्रितान् अनन्यस्वामिकान् मानुषान् तिरश्चश्च । किंविशिष्टान् , अवृत्त्या जीवनाभावेनार्ता अनवस्थितचित्तास्तान् , न केवलमाश्रिताननाश्रितानपि भृत्वा । कया, कृपया करुणया, न केवलं तथा कृत्वा दिवा भक्तादिकं भुञ्जीत । निश्यपि रात्राववि भुञ्जीत । किं तत्, अम्ब्वादि अम्बु जलं, भैषज्यमौषधं ताम्बूलं क्रमुकं, एला प्रसिद्धा । आदिशब्देन जातीफलकर्पूरादिमुखवासनप्रायद्रव्यपरिग्रहः ॥ ७६ ॥
मनोभूरिव कान्ताङ्गः सुवर्णाद्रिरिव स्थिरः। सरस्वानिव गम्भीरो विवस्वानिव भासुरः ॥ आदेयः सुभगः सौम्यस्त्यागी भोगी यशोनिधिः । भवत्यभयदानेन चिरजीवी निरामयः॥
१ ताम्बूलमौषधं तोयं मुक्त्वाऽऽहारादिकां क्रियाम् ।
प्रत्याख्यानं प्रदीयेत यावत्प्रातर्दिनं भवेत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org