________________
द्वितीयोध्यायः।
भोगित्वाद्यन्तशान्तिप्रभुपदमुदयं संयतेऽन्नप्रदानाच्छ्रीषेणो रुग्निषेधाद्धनपतितनया पाप सर्वोषधर्द्धिम् । प्राक्तज्जन्मर्षिवासावनशुभकरणात्सूकरः स्वर्गमग्र्यं कौण्डेशः पुस्तका वितरणविधिनाऽऽप्यागमाम्भोधिपारम् टीका-माप लब्धवान् । कोऽसौ, श्रीषेणो नाम राजा। कम्, उदयमभ्युदयं । किंविशिष्टं, भोगित्वाद्यन्तशान्तिप्रभुपदं भोगित्वमुत्तमभोगभूमिजत्वमादावन्ते च शान्तिप्रभोः शान्तिनाथतीर्थङ्करस्य पदं यस्य तं । कस्माद,-- अप्रदानात् विधिवदाहारवितरणात् । क, संयते संयमभाजि आदित्यगत्याख्यारिञ्जयसंज्ञचारणर्षियुगले । बीजत्वमात्रविवक्षाऽत्र । तथाविधाभ्युदयस्योत्तरपुण्यविशेषोदयसम्पाद्यत्वात् । तथा प्राप । काऽसौ, धनपतितनया वृषभसेनाभिधाना पूर्वभवे राज्ञो देवकुलस्य सम्मार्जिका । कां प्राप, सवौषधदि सर्वेषां ज्वरातिसारादिव्याधीनामौषधं चिकित्सितं तस्य ऋद्धिरव्याहतसिद्विस्तां । कस्मात्, रुग्निषेधात् व्याधिप्रतीकारादौषधादेः दोषनिषेधात् । क्व, संयते तपोधने । तथा प्राप। कोऽसौ, शूकरो वराहः । कं, स्वर्ग । किंविशिष्टम् , अय्यं सौधर्मे महर्द्धिकदेवत्त्वमित्यर्थः । कस्मात्, प्रागित्यादि-प्राक्च पूर्व तच्च तात्कालिकं च प्राक्ते, प्राक्ते च ते जन्मनी च प्राक्तजन्मनी तयोः ऋषेर्वासावने निवासरक्षणे तयोः शुभकारणः शुभाभिसन्धिपरिणामस्तस्मात् । पूर्वभवे मुनेरावासदानाभिप्रायेण तद्भवे च रक्षणाभिप्रायेणेत्यर्थः । तथा कोण्डेशोऽपि गोविन्दाख्यगोपालचरो ग्रामकूटपुत्रः सन् कौण्डेशो नाम मुनिश्च प्राप। कम्, आगमाम्भोधिपारं द्वादशाङ्गश्रुतसारपर्यन्तं । केन पुस्तकस्य अर्चायाः पूजायाः वितरणस्य च दानस्य विधिना करणेन ॥ ७० ॥
जिनधर्मानुबन्धार्थमसतां मुनीनामुत्पादने सतां च गुणातिशयसम्पादने प्रयत्नविधानार्थमाह--
जिनधर्म जगद्वन्धु-मनुबध्दुमपत्यवत् । यतीजनयितुं यस्येत्तथोत्कर्षयितुं गुणैः ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org