________________
६०
सागारधर्मामृते
सप्तोत्तानशया लिहन्ति दिवसान्स्वांगुष्ठमार्यास्ततः कौ रिङ्गन्ति ततः पदैः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्य भोगोद्गताः सप्ताहेन ततो भवन्ति सुहगादानेऽपि योग्यास्ततः ॥ ६८ ॥
I
टीका – लिहन्ति आस्वादयन्ति । के, आर्याः भोगभूमिजमनुजाः । कं, स्वांगुष्ठं । कानू, दिवसान् । कति, सप्त जन्मानन्तरं सप्ताहमित्र्थः । किंविशिष्टाः सन्तः, उत्तानश्या उत्तानमनधोमुखं शेरते । ततः प्रथमसप्ताहानन्तरं रिङ्गन्ति पद्भ्यां सर्पन्ति । के, आर्याः । कस्यां कौ भूमौ । कानू, सप्तदिवसानू । ततो द्वितीय सप्ताहानन्तरं यान्ति सञ्चरन्ति । के, आर्याः । कस्यां कौ । कैः पदैः पादन्यासैः । किं कुर्वद्भिः स्खलद्भिर्यत्रततपतद्भिः । किंविशिष्टाः सन्तः, कलगिरो मनोहरवाचः । ततस्तृतीय सप्ताहानन्तरमार्याः सप्ताहेन सप्तभिर्दिनैः स्थेयोभिः स्थिरतरैः पदैः यान्ति गच्छन्ति । कस्यां, कौ पृथिव्यां । ततश्चतुर्थसप्ताहानन्तरमार्याः सप्ताहेन सप्तभिर्दिनैः कलगीतादिगुणश्च लावण्यादीन् बिभ्रतो भवन्ति । ततः पञ्चमसप्ताहानन्तरं सप्ताहेनार्याः तारुण्यभोगोद्गता उदितोदितयौवना अविच्छिन्नमद्यादीष्टविषयाश्च भवन्ति । ततः षष्ठसप्ताहानन्तरं सप्ताहेनार्याः योग्या भवन्ति । क्क, सुहगादाने सम्यक्त्वग्रहणे । अपिर्विस्मये ॥ ६९ ॥
अथ मुनिदेय निर्णयार्थमाह-
तपः श्रुतोपयोगीनि निरवद्यानि भक्तितः । मुनिभ्योऽन्नौषधावास - पुस्तकादीनि कल्पयेत् ॥ ६९ ॥
टीका - कल्पयेदुपकारयेत् । सङ्गृही। कानि, अन्नौषधावासपुस्तकादीनि । आदिशद्वेन पिच्छिकाकमण्डल्वादीनि । केभ्यो, मुनिभ्यः संयतेभ्यः । कस्मात्, भक्तितः । किंविशिष्टानि, तपः श्रुतोपयोगीनि तपसः श्रुतज्ञानस्य चोपकाकाणि । पुनः किंविशिष्टानि, निरवद्यानि पिण्डशुध्युक्तोद्मोत्पादनादिदोषरहितानि ॥ ६९ ॥
अन्नादिदानफलानां क्रमेण निदर्शनान्याह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org