SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । भोगभाजो दृश्यन्ते ते सर्व कुपात्रदानतो यथापरिणाममुत्पन्नेन मिथ्यात्वसहचारिणा पुण्येन तथा स्युरिति निर्णयः । अद्भुते प्राप्नोति । कोऽसौ, सद्दृष्टिः सम्यक्त्वविशुद्धो जीवः । तुर्विशेषे । किं, शिवपदं । किंभूतो भूत्वा, सुष्ठु यथेष्टं भुक्तानि उत्तमानि महर्द्धिकानि स्वर्भुवां कल्पोपपन्नदेवानां मर्त्यानां च चक्रवर्त्यादीनां पदानि येन स सुभुक्तोत्तमस्वर्भूमर्त्यपदः । कस्मात् सुदात्रदान सुकृतोद्रेकात् सुपात्राय महातपोधनाय त्रिविधपात्राय वा दानमनुग्रहार्थ स्वस्यातिसर्गस्तस्माज्जातं सुकृतं पुण्यं तस्योद्रेकादुदयात् । भवेत् । कोऽसौ व्ययः अर्थविनियोगः । क्क, अपाचे' सम्यक्त्वव्रतर हितप्राणिनि । किंविशिष्ट, व्यर्थो विपरीतफलो निष्फलो वा ॥ ६७ ॥ > इदानों पात्रदानपुण्योदयफलभाजां भोगभूमिजानां जन्मप्रभृति सप्ताह-सप्तकभाविनीरवस्था निर्देष्टुमाह उत्तमपत्तं साहू मज्झमपत्तं च सावया भणिया । अविरदसम्माइलो जहण्णपत्तं मुणेयव्यम् ॥ मिथ्यात्वग्रस्त चित्तेषु चारित्रा + + भागिषु । दोषायैव भवेद्दानं पयःपानमिवाहिषु ॥ कारुण्यादथवौचित्यात्तेषां किञ्चिद्दिशन्नपि । दिशेदुद्धृतमेवानं गृहे भुक्ति न कारयेत् ॥ सत्कारादिविधावेषां दर्शनं दूषितं भवेत् । यथा विशुद्धमप्यम्बु विषभाजन संगमात् ॥ पात्राय विधिना दत्वा दानं मृत्वा समाधिना । अच्युतान्तेषु कल्पेषु जायन्ते शुद्धदृष्टयः ॥ ज्ञात्वा धर्मप्रसादेन तत्र प्रभवमात्मनः । पूजयन्ति जिनार्थ्यास्ते भक्त्या धर्मस्य वृद्धये ॥ १ - अपात्रदानतः किञ्चिन्न फलं पापतः परम् । लभ्यते हि फलं खेदो बालुकापुञ्जपेषणे ॥ अपात्राय धनं दत्ते यो हित्वा पात्रमुत्तमम् । साधुं विहाय चौराय तदर्पयति स स्फुटम् ॥ Jain Education International ५९. For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy