________________
५८
सागारधर्मामृते
सद्दृष्टिस्तु सुपात्रदान सुकृतोद्रेकात्सुभुक्तोत्तमस्वर्भूमर्त्यपदो शिवपदं व्यर्थस्त्वपात्रे व्ययः ॥ ६७ ॥
टीका - भवेत् जायेत । कोऽसौ असुहस्मिथ्यादृष्टिर्जीवः । किं भवेत्, देवः सुरः । कथं, यथास्वं यद्यत्स्वमात्मीयं दानं तत्तदनतिक्रमेणेत्यर्थः । किंविशिष्टः सन् तादृक्पात्रवितर्णभुक्तिः तादृग्भ्यो न्यग्मध्योत्तमकुत्सितेभ्यः पात्रेभ्यो वितीर्णा दत्ता भुक्तिराहारो येन स तथोक्तः । कस्माद्भवेत्, वृषात् पुण्यविशेषात् । किंविशिष्टात्, न्यागत्यादि, - न्यक् जघन्य एकपल्योपमभोग्यत्वात् उत्तमस्त्रिपल्योपमभोग्यत्वात् कुत्स्यः सुस्वादुमृत्पुष्पफलाशनवृत्तित्वादेकोरुकादिदेहयोगाच्च । न्यक्च मध्यमश्च उत्तमश्च कुत्स्यश्च न्यग्मध्योत्तमकुत्स्यास्ते च ते भोगाश्च न्यग्मध्योत्तमकुत्स्यभोगास्तैरुपलक्षिता जगत्यो भूमयो जवन्यभोगभूमिर्मध्यमभोगमूमिरुत्तमभोगभूमिः कुभोगभूमिश्चेति चतस्रस्तासु भुक्ताः कल्पवृक्षादिसम्पादितेष्टविषयोपभोगमुखेन निजीर्णश्चासा ववशेषश्चोद्धृतो यो वृषस्तस्मात् । तत्र मिथ्यादृष्टिर्जघन्यपात्राय सुदृष्टिलक्षणायाहारदानं दत्वा जघन्य भोगभूमौ मध्यमपात्राय सम्यक्त्वाणुव्रतपवित्राय मध्यभोगभूमी, उत्तमपात्राय सम्यग्दर्शनमहाव्रतभूषिताय चोत्तमभोगभूमी, निरातङ्कभोगान् भुक्त्वा स्वायुः क्षये यथायोग्यं गच्छेत् । तत्तत्पात्रसन्निधानात्तथाविधशुभ परिणाम विशेषोपपत्त्या तादृक्पुण्यप्रचयानुभावात् । स एव च कुपात्रा सम्यक्त्वरहितत्रततपोयुक्तायाहारं दत्वा कुभोगभूमौ निर्भूषाविवस्त्रगुहावृक्षमूलनिवास्ये कोरुकादिशरीरो भूत्वा स्वसमानपत्न्या सह यथास्वं निराबाधतया भोगं भुक्त्वा पल्योपममात्रस्वायुःक्षये मृत्वा स्वर्गे वाहनदेवो ज्योतिषको वा व्यन्तरो वा भवनवासी वा भूत्वा दीर्घं दुर्गतिदुःखानि भुञ्जन् संसरति । किं च ये भोगभूमिषु ये च मानुषोत्तरपर्वताद्बहिः प्राक्च स्ययम्प्रभपर्वतात्तिर्यञ्च ये च म्लेच्छराजगजतुरगादयो वेश्यादयो वा नीचात्मानो
1
पात्रापात्रलक्षणं यथा
१-२ उत्कृष्टपात्रमनगारम णुत्रताढ्यं
मध्यं व्रतने रहितं सुदृशं जघन्यम् । निर्दर्शनं व्रतनिकाययुतं कुपात्र युग्मोज्झितं नरमपात्रमिदं हि विद्धि ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org