________________
द्वितीयोध्यायः ।
पुनस्तदर्थसमर्थनार्थमाह
भावो हि पुण्याय मतः शुभः पापाय चाशुभः । तद्दुष्यन्तमतो रक्षेद्वीरः समयभक्तितः ।। ६५ ।
टीका - हि यस्मात् । पुनरिष्टः । कोऽसौ भावः परिणामः । कस्मै, पुण्याय सुकृतनिमित्तं । किंविशिष्टः, शुभः प्रशस्तः । तथा मतः । कोऽसौ, भावः । किंविशिष्टो,-ऽशुभोऽप्रशस्तः । कस्मै, पापाय पातकनिमित्तं । यत एवमतः एतस्मात्कारणात् । रक्षेन्निवारयेत् । कोऽसौ, धीरोऽविकारप्रकृतिः । कं तं, भावं । किं कुर्वन्तं, दुष्यन्तं विकुर्वाणं । कस्मात्, समयभक्तितः जिनशासनं कलौ धारयन्तोऽमी अतो जिनवन्मान्या इत्यनुरागबुध्या ॥ ५६ ॥ ज्ञानतपसोः पृथक् समुदितयोश्च तद्वतां च पूज्यत्वे युक्तिमाहज्ञानमर्च्य तपोऽङ्गत्वा त्तपोऽर्च्य तत्परत्वतः । द्वयम शिवाङ्गत्वात्तद्वन्तोऽर्थ्या यथागुणम् ॥ ६६ ॥
टीका - अर्च्य पूज्यं गृहिणां । किं तत् ज्ञानं साधकस्थं दीक्षायात्राप्रतिपयोगि । कुतस्तपोऽङ्गत्वादनशनादितपोनिमित्तत्त्वात् । तथा अर्थ्यं । किं तत्, तपो नैष्ठिकस्थं । कस्मात्त, त्परत्वतः ज्ञानातिशयहेतुत्वात् ज्ञानं परमुत्कृष्टं यस्मादिति व्युत्पत्याश्रयणात् । तथा अर्घ्यं । किं तत्, द्वयं ज्ञानतपोयुगलं गणाधिपस्थं । कस्मात्, शिवाङ्गत्वान्मोक्षकारणत्वात् । तथा अर्ध्याः । के ते, तद्वन्तो ज्ञानिनस्तपस्विनो ज्ञानतपोयुक्ताश्च । कथं, यथागुणं यो यो गुणो यस्याधिकस्तेन तेन तं तं विशेषेण पूजयेदित्यर्थः ॥ ६६ ॥
अथ मिथ्यादृष्टेश्च सुपात्रेष्वेवान्नदानादुत्पन्नस्य पुण्यस्य फलविशेषमपात्रे चार्थविनियोगस्य वैयर्थ्यं प्रतिपादयितुमाह
न्यग्मध्योत्तमकुत्स्यभोगजगती भुक्तावशेषाद्वृषातादृक्पात्रवितीर्णभुक्तिरसुदृग्देवो यथास्वं भवेत् ।
यथा पूज्यं जिनेन्द्राणां रूपं लेपादिनिर्मितम् । तथा पूर्वमुनिच्छायाः पूज्याः सम्प्रति संयताः ॥
Jain Education International
५७
( पूर्वपृष्टादागता । )
For Private & Personal Use Only
www.jainelibrary.org