SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ५६ सागारधर्मामृते प्रकारैः लजाभयपक्षपातादिभिः। किंविशिष्टं धनं, लब्धं प्राप्तं । कस्मात् , दैवात्पुण्योदयान पुरुषकारात् , तस्य संसारे गौणत्वात् । किंविशिष्ट, मवश्यंविनाशि नियमेन गत्वरं । कथं, सह । कैः, प्राणैः ॥ ६३ ॥ किं तर्हि कुर्यादित्याहविन्यस्यैदंयुगीनेषु प्रतिमासु जिनानिव ।। भक्त्या पूर्वमुनीनर्चेत्कुतः श्रेयोऽतिचर्चिनाम् ॥ ६४ ॥ टीका-अर्चेत् पूजयेत् । कोऽसौ, सद्गृही । कान्, पूर्वमुनीन् प्राक्तनसाधून् । कया, भक्त्या । किं कृत्वा, विन्यस्य नामादिविधिना निक्षिप्य । केषु, ऐदंयुगीनेषु अस्मिन् युगे साधुषु । कास्विव कान्, प्रतिमासु जिनानिव प्रति. बिम्बेष्वहतो यथा । यतः कुतो भवति, न कुतश्चित् । किं तत्, श्रेयः पुण्यं । केषाम्, अतिचर्चिनाम् अतिमात्रं क्षोदकाराणाम् ॥ ६४ ॥ १ भुक्तिमात्रप्रदाने तु का परीक्षा तपस्विनाम् । ते सन्तः सन्त्वसन्तो वा शूद्रो दानेन शुध्यति ॥ सर्वारम्भप्रवृत्तानां गृहस्थानां धनव्यत्रः । बहुधाऽस्ति ततोऽत्यर्थ न कर्त्तव्या विचारणा ॥ यथा यथा विशिष्यन्ते तपोज्ञानादिभिर्गुणैः तथा तथाऽधिकं पूज्या मुनयो गृहमधिभिः ।। दैवालब्धं धनं धन्यैर्वप्तव्यं समयाश्रिते। एको मुनिर्भवेल्लभ्यो न लभ्यो वा यथागमम् ॥ उच्चावचजनप्रायः समयोऽयं जिनशिनाम् । नैकस्मिन्पुरुष तिष्ठे-देकस्तम्भ इवालयः ॥ ते नामस्थापनाद्रव्य-भावन्यासैश्चतुर्विधाः । भवन्ति मनुयः सर्वे दानमानादिकर्मसु ॥ उत्तरोत्तरभावेन विधिस्तेषु विशिष्यते । पुण्यार्जने गृहस्थानां जिनप्रतिकृतिष्विव ॥ काले कलौ चले चित्ते देहे चान्नादिकीटके । एतच्चित्रं यदद्यापि जिनरूपधरा नराः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy