________________
द्वितीयोध्यायः ।
सुकलत्रं विना पाते भूहेमादिव्ययो वृथा । कीटैर्दन्दश्यमानेऽन्तः कोऽम्बुमेकाद्भुमे गुणः ॥ ६१॥
५५
टीका - भवति । कोऽसौ भूहेमादिव्ययः भूमिसुवर्णादिदानं । कथम्भूतो, वृथा व्यर्थ: । क्क, पात्रे संयुज्यमानमोक्षकारणगुणे गृहिणि । कथं, विना । किं तत्, सुकलत्रं सत्पत्नीं । अत्र दृष्टान्तमाह- को भवति, न कश्चित् । कोऽसौ, गुण उपकारः । कस्मात्, अम्बुसेकात् जलसेचनात् । क्व, द्रुमे वृक्षे । किं क्रियमाणे, दन्दश्यमाने गर्हितं भक्ष्यमाणे । कैः, कीटैः घुणैः । क्क, अन्तर्मध्ये ।
विषयसुखोपभोगेनैव चारित्रमोहोदयोद्रेकस्य शक्यप्रतीकारत्वात्तद्वारेणैव तस्मादपवर्त्यत्मानमिव साधर्मिकमपि विषयेभ्यो व्युपरमयेदित्युपदेशार्थमाह
विषयेषु सुखभ्रान्ति कर्माभिमुखपाकजाम् ।
छित्वा तदुपभोगेन त्याजयेत्तान्स्ववत्परम् || ६२ ॥
>
टीका - त्याजयेद्विमोचयेत् । कोऽसौ सद्गृही । कं परं कन्यादिदानेन विषयीक्रियमाणं साधर्मिकं । कानू तानू, सुकलत्रादिविषयान् । किंवत्, स्वचत् आत्मानं यथा । किं कृत्वा, छित्वा प्रशमय्य । कां, सुखभ्रान्ति सुखयन्तीति सुखाः सुखहेतव इमे सुखं वेति विपर्यासमतिं । केषु विषयेषु । किंविशिष्टां, कर्माभिमुखपाकजां कर्मणश्चारित्रमोहस्याभिमुखो निजफलदानोद्यतः पाको रसः कर्माभिमुखपाकस्तस्मात् जातां । छित्वा प्रशमय्य । कां सुखभ्रान्ति । केन, तदुपभोगेन विषयानुभवनेन ।। ६२ ।
पुरुषाणामाचार विप्लवदर्शनाद्विचिकित्साकुलित
दुष्षमाकालवशात्प्रायेण चित्तस्य दातुः सौचित्यविधानार्थं चतुरः श्लोकानाह— दैवाल्लब्धं धनं प्राणैः सहावश्यंविनाशि च । बहुधा विनियुञ्जानः सुधीः समयिकान्क्षिपेत् ॥ ६३ ॥
टीका -- क्षिपेत् धिगिमान् सम्भाषणमात्रस्याप्ययोग्यानित्याद्यवर्णवादेन तिरस्कुर्यादिति काक्वा न क्षिपेदिति प्रतिषेधे पर्यवस्यति । कोऽसौ, सुधीः श्रेयोऽथ गृही । कानू, समयिकान् समयाश्रितान् गृहस्थान् यतीन् वा । किं कुर्वाणो, विनियुञ्जानो व्ययमानः । किं तत्, धनं । कतिधा, बहुधा बहुभिः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International