________________
५४
सागारधर्मामृते
सत्कन्यां ददता दत्तः सत्रिवर्गो गृहाश्रमः । गृहं हि गृहिणीमाहु-र्न कुड्यकसंहतिम् ॥ ५९ ॥
-
टीका - दत्तो वितीर्णः सगृहिणा साधर्मिकाय । कोऽसौ गृहाश्रमः गृहे आश्रमो धर्मानुष्ठानं गृहमेव वाऽश्रमस्तपःस्थानं । किं कुर्वता, ददता । कां सत्कन्यां सती प्रशस्ता कौलीन्यादिगुणोपेता सामुद्रिकोक्तदोषरहिता च कन्या कुमारी सत्कन्या तां । किंविशिष्ट गृहाश्रमो दत्तः, सत्रिवर्गों धर्मार्थकामानां सद्गृहिणीमूलत्वात् । तथा हि- धर्मः स्वदारसन्तोषाद्यात्मक संयम लक्षणो देवादिपरिचरणस्वरूपः सत्पात्रदानादिस्वभावश्च, अर्थो वेश्यादिव्यसनव्या वर्तनेन निष्प्रत्यूहमर्थस्योपार्जनादुपार्जितस्य च रक्षणाद्रक्षितस्य च वर्द्धनाद्यथाभाग्यं ग्राम सुवर्णादिसम्पत्तिः, 'संकल्परमणीयस्य प्रीतिसम्भोगशोभिनो रुचिरस्या - भिलाषस्य नाम काम' इति स्मृतिरिति वचनात् कामश्च यथेष्टमाभिमानिकरसानुविद्धसर्वेन्द्रियप्रीतिहेतुः कुलाङ्गनासङ्गिनां सुप्रतीतः । हि यस्मात् । आहुः ब्रुवन्ति विद्वांसः । किं, गृह । कां, गृहिणीं कुलपत्नीं । न आहुः । किं तत्, गृहं । कुड्यकटसंहतिं भित्तिवंशादिच्छादन सङ्घातम् ॥ ५९ ॥
कुलत्रपरिग्रहं लोकद्वयाभिमतफलसम्पादकत्वात् त्रैवर्गिकस्य विधेयतयोपदिशति
धर्मसन्ततिमक्लिष्टां रतिं वृत्तकुलोन्नतिम् । देवादिसत्कृतिं चेच्छन्सत्कन्यां यत्नतो वहेत् ॥ ६०॥
टीका - वहेत् परिणयेत । कोऽसौ, श्रावकः । कां, सत्कन्यां सती प्रशस्ता सतश्च सज्जनस्य कन्या सत्कन्या तां । कस्मात्, यत्नतः प्रयत्नेन तत्परतया । किं कुर्वन्, इच्छन् आकांक्षन् । किं किं, धर्मसन्ततिं धर्मार्था सन्ततिरपत्यानि अथवा धर्मस्य सन्ततिरविच्छेदो धर्मसन्ततिस्तां, तथा अक्लिष्टामनुपहतां रति संम्भोगं, तथा वृत्तकुलोन्नतिं वृत्तस्याचारस्य कुलस्य च वंशस्य गृहस्य वा उन्नतिरुद्गतिस्तां, तथा देवादिसत्कृतिं देवद्विजातिथिबान्धवसत्कारम् ॥ ६०॥ दुष्कलन्रस्याकलत्रस्य वा पात्रस्य भूम्यादिदानान्न कश्चिदुपकारः स्यादित्यमुमर्थमवश्यं सत्कन्याविनियोगेन सधर्माणमनुगृह्णीयादिति विधिव्यवस्थापनार्थमर्थान्तरन्यासेन समर्थयते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org