________________
द्वितीयोध्यायः ।
५३
गेण । किं कुर्वन्तं, स्फूर्जन्तं विचारकचेतसि स्फुरन्तं । कैर्गुणैः । किंविशिष्टैः, वराहैवरयितुर्योग्यैः कुलशीलसानाध्यविद्यावित्तसौरूप्ययोग्य वयोर्थिवैः । कां परिणाय्य, कन्यां । किंविशिष्टां निर्दोषां सामुद्रिकशास्त्रोक्तदोषरहितां । पुनः किंविशिष्टां, सुनिमित्तसूचित शिवां सुनिमित्तैः सामुद्रिक दूतज्योतिषादिभविष्यच्छुभाशुभज्ञानोपायैः सूचितं प्रकाशितं शिवं स्वस्य वरस्य च कल्याणं यस्यास्तां । स किमित्याह – ऊर्जति समर्थो भवति । कोऽसौ स यथाविधि - कन्यादाता । क्क, कार्येऽवश्यकृत्ये । किंविशिष्टे, परेऽपि पारलौकिके न केवलं लौकिकं इत्यपिशब्दार्थः । किंविशिष्टः सन्, सदित्यादि- दे - सत्समयः जिनप्रवचनार्यसङ्गतिर्वा तेनास्तो निराकृतो मोहस्य चारित्रावरणकर्मणो महिमा गुरुत्वं येन स तथोक्तः । किं कृत्वा, भूत्वा । किम्भूतोऽग्रणीः प्रधानं । केषु मध्ये, taraषु धर्मार्थकामानाचरत्सु । कस्मात् त्रिवर्गघटनात् धर्मार्थकामसम्पादनात् । कयो, -स्तयोः स्वकन्यातद्वरलक्षणयोर्दम्पत्योर्जायापत्योः ॥ ५८ ॥ सत्कन्याप्रदातुः साधर्मिकोपकारकरणद्वारेण महान्तं सुकृतलाभमवभासय,
नाह-
"
क्रान्त्वा स्वस्योचितां भूमिं तीर्थभूमीर्विहृत्य च । स्वगृहं प्रविशेद्भूत्या परया तद्वधूवरम् ॥ विमुक्तकंकणः पश्चात्स्वगृहे शयनीयकम् | अधिशय्य यथाकालं भौगाङ्गैरुपलालितम् ॥ सन्तानार्थमृतावेव कामसेवां मिथो भजेत् । शक्तिकालव्यपेक्षोऽयं क्रमोऽशक्तेष्वतोऽन्यथा ॥ १-२ द्वौ हि धर्मों गृहस्थानां लौकिकः पारलौकिकः । लोकाश्रयो भवेदाद्यः परः स्यादागमाश्रयः ॥ सर्व एव हि जैनानां प्रमाणं लौकिको विधिः । यत्र सम्यक्त्वहानिने यत्र न व्रतदूषणम् ॥ स्वजात्यैव विशुद्धानां वर्णानामिह रत्नवत् । तत्क्रियाविनियोगाय जैनागमविधिः परम् ॥ यद्भवभ्रान्तिनिर्मुक्ति-हेतुस्तत्र दुर्लभा । संसारव्यवहारे तु स्वतः सिद्धे वृथाऽऽगमः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org