________________
५२
सागारधर्मामृते
तस्मै तद्दातव्यमित्यर्थः । कया, आधामादीत्यादि -आधानं गर्भाधानविधानमादिर्यासां प्रीतिसुप्रीत्यादीनामातोक्तानां क्रियाणां ता आधानादयस्ताश्च ताः क्रियाश्च कर्माणि गृहस्थानामवश्यकार्याणि, मन्त्राः प्रत्यासत्तेराधानादिक्रियासम्बन्धिन एवासेोक्ताः अपराजितमन्त्री वा व्रतानि मद्यविरत्यादीनि आदिशब्दाद्देवपूजापात्रदानादिधर्मकर्माणि तेषामच्छेदः सातत्येन प्रवृत्तिस्तत्र वाञ्छा आकांक्षा तया ॥ ५७ ॥
-
सम्यक्कन्यादानविधिं तत्फलं चाह - निर्दोषां सुनिमित्तसूचितशिवां कन्यां वराहैर्गुणैः स्फूर्जन्तं परिणाय्य धर्म्यविधिना यः सत्करोत्यञ्जसा । दम्पत्योः स तयोस्त्रवर्गघटनात्त्रैवर्गिकेष्वग्रणीर्भूत्वा सत्समयास्तमोहमहिमा कार्ये परेऽप्यूर्जति ॥ ५८ ॥ टीका - यो गृही । अञ्जसा श्रद्वापरत्वेन । साधर्मिकं सत्करोति सम्मानयति यथोचितवस्त्रादिदानेनोपचरति । किं कृत्वा, परिणाय्य युक्तितो वरणविधानमग्निदेवद्विजसाक्षिकं च पाणिग्रहणं विवाहस्तं कारयित्वा । केन, धर्म्यविधिर्ना धर्म्या धर्मादनपेता ब्राह्मप्राजापत्यार्थदेवाश्चत्वारो विवाहास्तेषां यथार्ह प्रयो
धर्म्याविवाहविधिरार्षे यथा
तसोsस्य गुर्वनुज्ञाना-दिष्टा वैवाहिकी क्रिया । वैवाहिके कुले कन्या - मुचितां परिणेष्यतः | सिद्धार्चनविधिं सम्य-निर्वर्त्य द्विजसत्तमाः । कृतामित्रयसम्पूजाः कुर्युस्तत्साक्षिकां क्रियाम् ॥ पुण्याश्रमे क्वचित्सिद्ध- प्रतिमाभिमुखं तयोः । दम्पत्योः परया भूत्या कार्यः पाणिग्रहोत्सवः ॥ वेद्यां प्रणीतमग्नीनां त्रयं द्वयमथैककम् । ततः प्रदक्षिणीकृत्य प्रशय्य विनिवेशनम् ॥ पाणिग्रहणदीक्षायां नियुक्तं तद्वधूवरम् । आसप्ताहं चरेद्रम्ह - व्रतं देवाग्निसाक्षिकम् ॥
Jain Education International
( शेषस्त्वग्रपृष्ठे । )
For Private & Personal Use Only
www.jainelibrary.org