________________
प्रतीतजैनत्वगुणेऽनुरज्यन्निव्याजमासंमृति तद्गुणानाम् । धुरि स्फुरनभ्युदयैरदृप्तस्तृप्तस्त्रिलोकीतिलकत्वमेति ॥५५॥ टीका-एति गच्छति । कोऽसौ, गृही। किं कुर्वन्, अनुरज्यन् स्वयमेवानुरागं कुर्वन् । कथ, निर्व्याजं निच्छद्म । क्व, प्रतीत: प्रसिद्धो जैनत्वगुणो यस्य तस्मिन् प्रतीतजैनत्वगुणे । कि-,मेति त्रिलोकीतिलकत्वं परमपदं । किंभूतो भूत्वा, तृप्तः वितृष्णीभूत इत्यर्थः । कैः,अभ्युदयैराश्वर्यादिभिः । किंविशिष्टः सन् , अदृप्तोऽकृतमदः सम्यक्त्वसहचारिपुण्योदययागोत् । किं कुर्वन्, स्फुरन् दीव्यन् । क,धुरि अग्रे । केषां सद्गुणानां प्रतीतजैनत्वगुणानां । कथम्.आसंमृति संसारं यावत्, भवे भवे जैनानामग्रणीर्भवन्नित्यर्थः ॥ ५५ ॥
गृहस्थाचार्याय तदभावे मध्यमपात्राय वा कन्यादिदानं पाक्षिकश्रावकस्य कर्तव्यतयोपदिशति
निस्तारकोत्तमायाथ मध्यमाय सधर्मणे ।
कन्याभूहेमहस्त्यश्व-रथरत्नादि निर्वपेत् ॥ ५६ ॥ टीका--निर्वपेत् दद्यात् गृही। किं तत्, कन्या कुमारी, भूभूमिः, हेम काञ्चनं, हस्ती गजः, अश्वो बाजी, रथः स्यन्दनः, रत्नं वज्रादि, आदिशब्देन वस्त्रगृहनगरायेवंजातीयकमन्यदपि त्रिवर्गसाधनाश्रयं वितरेत् । कस्मै,सधर्मणे समान आत्मना समो धर्मः क्रियामन्तवतादिलक्षणो गुणो यस्य तस्मै । किविशिष्टाय, निस्तारकोत्तमाय संसाराणवोत्तारकाणां गृहिणां मध्ये प्रधानाय, न केवलं तस्मै तदलाभे च मध्यमाय अनुत्तमाधमाय । अथशब्दोऽत्र पक्षान्तरसूचनेऽधिकारे वा । अत्र जघन्यविषयां समदत्तिं व्याख्याय मध्यमविषयाs सावधिक्रियते इत्यर्थः । यत्यपेक्षया गृहस्थस्य गुणाधिकस्यापि मध्यमपात्रत्वात् ॥ ५६ ॥ सधर्मभ्यः कन्यादिदाने हेतुमाह
आधानादिक्रियामन्त्र-व्रतावच्छेदवाञ्छया।
प्रदेयानि सधर्मभ्यः कन्यादीनि यथोचितम् ।। ५७ ।। टीका-प्रदेयानि प्रकृष्टं कृत्वा दातव्यानि गृहिणा। कानि, कन्यादीनि । केभ्यः, सधर्मभ्यः साधर्मिकेभ्यः । कथं, यथोचितं यो यो यद्दानस्य योग्यस्तस्मै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org