________________
५०
सागारधर्मामृते
.............
टीका-द्योत्यं प्रकाश्यं प्रभाव्यं । कैः, सत्पात्रैः ज्ञानतपोऽधिकैः। किंविशिष्टै,-रजैनैः शिवादिभक्तिग्रहाविष्टैः । क, तत्रापि तपोज्ञानरहितेऽपि जैने । किंवत्, खद्योतवत् खद्योतैरिव । कस्मिन्, रवौ रविसन्निधाने ज्योतिरिङ्गणा यथा निष्प्रभा भवन्ति तथा स्फुरज्जैनत्वगुणपुंसः समीपे मिथ्यादृष्टिधार्मिका इत्यर्थः । यत्र किं, यत्र स्फुरति प्रतपति । कोऽसौ, जैनत्वगुणः जिन एव देवो मे भवार्णवोत्तारकत्वादित्यभिनिवेशधर्मः। किंविशिष्टोऽपि, ज्ञानतपोरहितः,किं पुनस्तत्सहित इत्यपिशब्दार्थः । किंविशिष्टः, सतां मतः साधूनामिष्टः॥ ५२ ॥ श्रेयोऽर्थिनां जैनानुग्रहानुभावमाह
वरमेकोऽप्युपकृतो जैनो नान्ये सहस्रशः ।
दलादिसिद्धान् कोऽन्वेति रससिद्ध प्रसेदुषि ।। ५३ ॥ टीका-वरं भवत् । कोऽसौ, जैनः। किंविशिष्टः, उपकृतोऽनुगृहीतः । किंविशिष्टोऽपि, एकोऽपि । न वरं। के,-ऽन्ये अजैनाः । किंविशिष्टाः, उपकृताः। कियन्तः, सहस्रशः सहस्रसंख्याः । अत्र दृष्टान्तमाह-को, न कश्चित् । अन्वेति अनुवर्तते । कान् , दलादिसिद्धान् दलं बीजरहितकृत्रिमसुवर्णादिद्रव्यं आदिशद्धाद्वोत्कर्षादि तत्र तेन वा सिद्धान् प्रसिद्धान् । क्व सति, रससिद्धे पारदेन दारिद्यव्याधिजरादिनिराकरणशक्त्या प्रतीते पुंसि । किंविशिष्टे, प्रसेदुषि प्रसन्ने अनुग्रहोद्यते ॥ ५३ ॥ नामादिनिक्षेपविभक्तानां चतुर्णा जैनानां पात्रत्वं यथोत्तरं विशिनष्टि
नामतः स्थापनातोऽपि जैनः पात्रायते तराम् ।
स लभ्यो द्रव्यतो धन्यैर्भावतस्तु महात्माभिः ॥ ५४ ॥ टीकाः-पात्रायते तरां अजैनपात्रेभ्योऽतिशयेन संयुज्यमाननिर्वाणकारणगुणलक्षणपात्रवदाचरति, सम्यक्त्वसहचारिपुण्यासवकारणत्वात् । कोऽसौ. जैनः । केन, नामतः सज्ञामात्रेण, न परं नाम्ना स्थापनातोऽपि सोऽयं जैन इति कल्पनामात्रेणापि । लभ्यः प्राप्यः । कोऽसौ, स जैनः । केन, द्रव्यतो द्रव्येण आगामिजैनत्वगुणयोग्यत्वेन विशिष्टः। कैः, धन्यैः पुण्यवद्भिः। स एव तु भावतो भावेन जैनत्वगुणयोगेन लभ्यः । कैः, महात्मभिः महाभागैः ॥५४॥ भावजैनं प्रति निरुपाधिप्रीतिमतोऽभ्युदयनिःश्रेयससम्पदं फलमाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org