SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ४९ धर्मपालाणां यथागुणं सन्तर्पणीयत्वमाहसमयिकसाधकसमयद्योतकनौष्ठकगणाधिपान्धिनुयात् । दानादिना यथोत्तरगुणरागात्सद्गृही नित्यम् ।। ५१॥ टीका-समयिको गृही यतिर्वा जिनसमयश्रितः, साधको ज्योतिषमन्त्रवादादिलोकोपकारकशास्त्रज्ञः, समयद्योतको वादित्वादिना मार्गप्रभावकः, नैष्ठिको मूलोत्तरगुणश्लाध्यतपोऽनुष्ठाननिष्ठः, गणाधिपः धर्माचार्यस्तादृग्गृहस्थाचार्यो वा एतान् पञ्च धिनुयात् प्रीणयेत् । कोऽसौ, सद्गृही पाक्षिकश्रावकस्त्रैवर्णिको वा गृहस्थः । केन, दानादिना दानमानासनसम्भाषणादिना । कस्मात्, यथोत्तरगुणरागात् यो य उत्तर उत्कृष्टः समयिकादीनां मध्ये तस्य तस्य गुणेषु प्रीतितः, अथवा यो यो यस्योत्कृष्टो गुणस्तत्र तत्र प्रीत्या तं धिनुयादिति योज्यम् । अत्र श्रमणोपासकेषु मुमुक्षुषु रत्नत्रयानुग्रहबुध्या सन्तर्पणं पात्रदत्तिः, बुभुक्षुषु च गृहस्थेषु वात्सल्येन यथार्हमनुग्रहः समान दत्तिरिति विभागः ॥ ५ ॥ समदत्तिविधानोपदेज्ञार्थमाह स्फुरत्येकोऽपि जैनत्व-गुणो यत्र सतां मतः । तत्राप्यजनैः सत्पात्रै?त्यं खद्योतवद्रवौ ॥ ५२ ।। १ गृहस्थो वा यतिर्वाऽपि जैनं समयमास्थितः । यथाकालनुप्राप्तः पूजनीयः सुदृष्टिभिः ॥ २ ज्योतिर्मन्त्रनिमित्तज्ञः सुप्रज्ञः कायकर्मसु । मान्यः समयिभिः सम्यक्परोक्षार्थ+++धीः ॥ ३ दीक्षायात्राप्रतिष्ठाद्याः क्रियास्तद्विरहे कुतः । तदर्थं परपृच्छायां कथं च समयोन्नतिः ॥ ४ मूलोत्तरगुणश्लाध्यैस्तपोभिर्निष्ठितास्थितिः । साधुः साधु भजेत्पूज्यः पुण्योपार्जनपण्डितैः ॥ ५ ज्ञानकाण्डे क्रियाकाण्डे चातुर्वर्ण्यपुरस्सरः । सूरिदेव इवाराध्यः संसाराधितरण्डकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy