SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते साम्प्रतं पात्राणि तर्पयेदित्यादिपूर्वोद्दिष्टदानादिविधिप्रपञ्चार्थमाहपात्रागमविधिद्रव्य- देशकालानतिक्रमात् । दानं देयं गृहस्थेन तपश्चर्ये च शक्तितः ॥ ४८ ॥ टीका — देयं दातव्यं । किं तत्, दोनं रत्नत्रयानुग्राहकं वस्तु । केन, गृहस्थेन । कस्मात् पात्राद्यनतिक्रमात् यथापात्रं यथाssगंम यथाविधि यथाद्रव्यं यथादेशं यथाकालं चेत्यर्थः । तथा चर्यमनुष्ठेयं गृहस्थेन । किं तत्, तपोऽनशनादि । कस्मात् शक्तितः निजसामर्थ्यानुसारेण दानतपसी कुर्यादित्यर्थः ॥ ४८ ॥ सम्यग्टशो नित्यमवश्यतया विधीयमानयोर्दानतपसोरवश्यम्भाविनं फलविशेषमाह ४८ नियमेनान्वहं किञ्चिद्यच्छतो वा तपस्यतः । सन्त्यवश्यं महीयांसः परे लोका जिनश्रितः ॥ ४९ ॥ > टीका - अवश्यं निश्चितं । सन्ति भवन्ति । के ते लोकाः । किंविशिष्टाः, परे जन्मान्तराणीत्यर्थः । किंविशिष्टाः सन्ति, महीयांसः इन्द्रादिपदलक्षणाः । कस्य, जिनश्रितः परमात्मानं सेवमानस्य भव्यस्य । किं कुर्वतो, यच्छतो ददतः तपस्यतो वा तपश्चरतः । किं किञ्चित् यद्वा तद्वा शास्त्रविहितं । केन, नियमेन अवश्यतया । कथ, - मन्वहं दिनेदिने ॥ ४९ ॥ यदर्थं यद्दानं कर्तव्यं तत्तदर्थमाह धर्मपात्राण्यनुग्राह्याण्यमुत्र स्वार्थसिद्धये । कार्यपात्राणि चात्रैवकीयै त्वौचित्यमाचरेत् ॥ ५० ॥ टीका -- अनुग्राह्याणि उपकार्याणि श्रेयोऽर्थिना । कानि, धर्मपात्राणि: रत्नत्रयसाधनपराः नराः । किमर्थं, स्वार्थसिद्धये । क्क, अमुत्र परलोके स्वर्गादिसुखसम्पत्त्यर्थमित्यर्थः । तथा अनुग्राह्याणि । कानि, कार्यपात्राणि त्रिवर्गसाधन सहायाः । कस्यै, अत्रैव जन्मनि स्वार्थसिद्धये पुरुषार्थसम्प्राप्तये । तथा आचरेदनुतिष्ठेत् गृही । किं तत्, औचित्यं दानप्रियवचनाभ्यामन्यस्य सन्तोषोत्पादनं । कस्यै कीत्यै यशोऽर्थम् ॥ ५० ॥ १ वर्य मध्यजघन्यानां पात्राणामुपकारकम् । दानं यथायथं देयं वैयावृत्यविधानिना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy