SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ४७ कथं, नित्यं शश्वत् । यतो भवन्ति । के ते, तत्पक्षतायपक्षान्तश्चराः तेषां गुरूणां पक्षस्तदायत्ततया वृत्तिः स एव तायपक्षो गरुडपतत्रं तत्रान्तर्मध्ये चरन्ति तदन्तश्चराः । किंविशिष्टा भवन्ति, विघ्नोरगोत्तराः विनाः प्रक्रमाद्धर्मानुष्ठानविषये अन्तरायास्त एवोरगाः सर्पाः अपकारकत्वात् तेभ्य उत्तरा: परे तरचारिणः, धर्मानुष्ठानप्रत्यूहस(नाभिभूयन्त इत्यर्थः ॥ ४५ ॥ गुरूपास्तिविधिमाह - निर्व्याजया मनोवृत्या सानुवृत्त्या गुरोर्मनः । प्रविश्य राजवच्छश्व द्वनयेनानुरञ्जयेत् ॥ ४६ ॥ टीका-अनुरायेदात्मनि रक्तं कुर्यात् । कोऽसौ, श्रेयोऽर्थी । किं त,न्मनश्चित्तं । कस्य, गुरोराराध्यस्य । केन, विनयेन अभ्युत्थानादिना कायिकेन, हितमितादिप्रतिपादनेन वाचनिकेन, शुभचिन्तनादिना चित्तेन च । कथं, शश्वत् नित्यं । किं कृत्वा, प्रविश्यान्तश्चरित्वा । किं तत्, गुरोर्मनः । कया, मनोवृत्या चित्तप्रवृत्त्या। किंविशिष्टया, निर्व्याजया निर्दम्भया । पुनः किंवि. शिष्टया, सानुवृत्त्या छन्दानुवृत्तिसहितया । कस्येव, राजवत्, राज्ञो यथा सेवकवर्गः ॥ ४६ ॥ विनयेनानुरञ्जयेदित्येतदर्थ व्यनक्तिपार्श्वे गुरूणां नृपवत्मकृत्यभ्यधिकाः क्रियाः। अनिष्टाश्च त्यजेत्सर्वा मनो जातु नु दूषयेत् ॥४७॥ टीका-त्यजेत् वर्जयेत् उपासकः । काः, क्रियाश्चेष्टाः । सर्वाः । किंविशिष्टाः, प्रकृत्यभ्यधिकाः स्वभावादतिरिक्ताः वैकारिकीः कोपहास्यविवादादिकाः । न केवलं ताः अनिष्टाश्च शास्त्रनिषिद्धाश्च पर्यस्तिकोपाश्रयादिकाः । क्व, पार्वे समीपे । केषां, गुरूणां । केषामिव, नृपवत् राज्ञां यथा । तथा न दूषयेत् न विकारयेत् । किं तत्, राज्ञामिव गुरूणां मनः । कथं, जातु कदाचिदपि आर्तावस्थायामपीत्यर्थः ॥ ४७ ॥ १ निष्ठीवनमवष्टम्भं जम्भणं गात्रभञ्जनम् । असत्यभाषणं नर्म हास्यं पादप्रसारणम् ॥ अभ्याख्यानं करस्फोटं करेण करताडनम् । विकारमंगसंस्कारं वर्जयेद्यतिसन्निधौ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy