________________
सागारधर्मामृते
हारनिश्चयरूपं रत्नत्रयं । कानिव, जिनानिव अर्हतो यथा । कुत इत्याह-यद्य स्मात् । वर्तन्ते । के ते, अपि सिद्धसाधुधर्माः । किंविशिष्टाः, लोकोत्तमाः लोकेषूत्कृष्टाः, तथा शरणमार्तिहरणमपायपरिरक्षणोपाया इत्यर्थः । तथा मङ्गलं पापापहाः पुण्यप्रदाश्च । किंवत्, तद्वत् जिनवत् ॥ ४२ ॥ सकलपूज्यपूजाविधिप्रकाशनेनानुग्राहिकायाः सम्यक् श्रतदेवतायाः पूजायां
४६
सज्जयन्नाह
यत्प्रसादान्न जातु स्यात् पूज्यपूजाव्यतिक्रमः । तां पूजयेज्जगत्पूज्यां स्यात्कारोडमरां गिरम् ।। ४३ ॥ टीका - पूजयेच्छेयोऽर्थी यजेत । कां तां गिरं श्रतदेवतां । किंविशिष्टां, स्यात्कारोड्डुमरां स्यात्पदप्रयोगेण सर्वथैकान्तवादिभिरजय्यां । पुनः किंविशिष्टां, जगत्पूज्यां विश्वलोकानामच्य । यत्प्रसादात् यस्या अनुग्रहात् न स्यात् न भवेत् । कोऽसौ, पूज्यपूजाव्यतिक्रमः पूज्यानां अर्हत्सिद्धसाधुधर्माणां पूजायां व्यतिक्रमो यथोक्तविधिलंघनं । कथं, जातु कदाचिदपि ॥ ४३ ॥
श्रुतपूजकाः परमार्थतो जिनपूजका एवेत्युपदिशति -
ये यजन्ते श्रतं भक्त्या ते यजन्तेऽञ्जसा जिनम् । न किञ्चिदन्तरं प्राहु- राप्ता हि श्रुतदेवयोः ॥ ४४ ॥
टीका - यजन्ते पूजयन्ति । के ते, पुमांसः । कं, जिनं । केन, अञ्जसा परमार्थेन | ये किं, ये यजन्ते । किं तत् श्रुतं । कया, भक्त्या । हि यस्मात् । न प्राहुः न ब्रुवन्ति । के ते, आप्ताः गुरवः । किं तत्, अन्तरं भेदं । कयोः, श्रुतदेवयोः प्रवचनपरमात्मनोः । कीदृशं किञ्चित् यदेव श्रुतं स एव देवो य एव च देवस्तदेव श्रुतमित्यर्थः ॥ ४४ ॥
एवं देवपूजाविधिं संक्षेपेणोपदिश्य साक्षादुपकारकत्वेन गुरूणामुपासने नित्यं नियुङ्क्ते
उपास्या गुरवो नित्य-मप्रमत्तैः शिवार्थिभिः । तत्पक्षताक्ष्य पेक्षान्त-श्वरा विनोरगोत्तराः ॥ ४५ ॥
टीका - उपास्याः सेव्याः । के ते गुरवः धर्माराधनायां प्रयोक्तारः । कैः, शिवार्थिभिः परमकल्याणकामैः । किंविशिष्टैः, सद्भिरप्रमत्तैः प्रमादरहितैः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org