SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ४५. सत्रमप्यनुकम्प्यानां सृजेदनुजिघृक्षया । चिकित्साशालबद्दष्ये-न्नेज्यायै वाटिकाद्यपि ॥ ४० ॥ टीका-सृजेन्निर्मापयेत्पाक्षिकः । किं तत्, सत्रमन्नप्रदानस्थानं अपिशद्धात्प्रपां च । किंवत्, चिकित्साशालवत् व्याधिप्रतीकारस्थानं यथा । कया, अनुजिघृक्षया उपकर्तुमिच्छया । केषा,-मनुकम्प्यानां कृपाविषयानां क्षुत्तृष्णा. तानां व्याधितानां च । तथा न दुष्येन्न दुष्टं भवेत् । किं तत्, वाटिकादि आदिशहाद्वापीपुष्करिण्यादि । किमर्थ,-मिज्यायै पूजार्थं । अपिशब्देनानादरार्थेन विषयसुखार्थं कृष्यादिकं कुर्वतां यद्यपि धर्मबुध्द्या वाटिकादिविधाने लोके व्यवहारानुरोधाद्दोषो न भवति, तथापि तदकुर्वतामेव क्रयक्रीतेन पुष्पादिना तेषामपि जिनं पूजयतां महान् गुणो भवतीति ज्ञाप्यते ॥ ४०॥ निर्व्याजभक्त्या येन केनापि प्रकारेण जिनं सेवमानानां समस्तदुखोच्छेद मितस्ततः समस्तमीहितार्थसम्पत्तिं चोपदिशति यथाकथञ्चिद्भजतां जिनं नियोजचेतसाम् । नश्यन्ति सर्वदुःखानि दिशः कामान्दुहन्ति च ।। ४१ ॥ टीका-नश्यन्ति निवर्तन्ते । कानि, सर्वदुःखानि शरीरमनस्तापाः । केषां निर्व्याजचेतसां निर्मायमनसां भाक्तिकानामित्यर्थः । किं कुर्वतां, भजतां सेवमानानां । कं, जिनं । यथाकथञ्चित् येनकेनापि स्नपनपूजास्तवनादिप्रकारेण । तथा दुहन्ति प्रपरयन्ति । का, दिशः ककुभः । कान्, कामान् मनोरथान् । यद्यत्कामयन्ते जिनयष्टारस्तत्तत्सर्वत्र लभन्ते इत्यर्थः॥ ४१ ॥ ___ एवं जिनपूजां विधेयतयोपदिश्य तद्वसिध्दादिपूजामपि विधेयतयोपदेटुमाह जिनानिव यजन्सिध्दान्साधुन्धर्म च नन्दति । तेऽपि लोकोत्तमास्तद्वच्छरणं मङ्गलं च यत् ॥ ४२ ॥ टीका-नन्दति अन्तरङ्गबहिरङ्गविभूत्या संवर्धते । कोऽसौ, जीवः । किं कुर्वन् , यजन् पूजयन् । कान् , सिद्धान् मुक्तात्मनः, तथा साधून् सिद्धिं साधयन्तीत्यन्वर्थनामानुसरणादाचार्योपाध्याययतीन्, न केवलं तान्, धर्म च ब्यव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy