SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ “४४ सागारधर्मामृते पुण्यास्रवणकारणं स्वैरं चरणं मनोवाक्कायव्यापारस्तेन स्फुरश्चासौ धर्मोद्धर्षस्तस्य प्रसरः स एव रसपूरो जलप्रवाहस्तेनास्तं स्फाटितं रजो येषां ते तथा । कथं स्युस्तत्र । यत्र किं, यत्र न भवति । किं तत्, अहंद्वहं जिनचैत्यालयः । किंविशिष्टं, दलितं छिन्नं खण्डितं कलिलीलाविलसितं मठपत्यादिदुर्गयो निरंकुशविज़म्भमाणसंक्लेशपरिणामो वा यत्र तद्दलितकलिलीलाविलसितं । पुनः किंविशिष्टं, श्रमणगणधर्माश्रमपदं श्रमणस्य यतिसङ्घस्य धर्मार्थमाश्रमपदं निवासस्थानम् ॥ ३७ ॥ कलौ वसतिविशेष विना सतामप्यनवस्थितचित्तत्वं दर्शयति मनी मठकठेराणां वात्ययेवानवस्थया । चेक्षिप्यमाणं नाद्यत्वे क्रमते धर्मकर्मसु ॥ ३८ ॥ टीका-न क्रमते नोत्सहते । किं त,-न्मनः । केषां, मठकठेराणां वसतिदरिद्राणामरण्यादिवासिनां यतीनामित्यर्थः । क, धर्मकर्मसु धर्मार्थासु क्रियासु आवश्यकादिषु । कदा, अद्यत्वे अस्मिन् काले । क्रियमाणं, चेक्षिप्यमाणं भृशं पुनःपुनर्वा चाल्यमानं । कया, अनवस्थया परापररागादिविवर्तनपरिणत्या । कयेव, वात्ययेव वातमण्डल्या तूल्यादिर्यथा ॥ ३८ ॥ विमर्शस्थानं विना महोपाध्यायादीनामपि शास्त्रान्तस्तत्वज्ञानदौःस्थित्यं प्रथयति विनेयवद्विनेतृणा-मपि स्वाध्यायशालया। विना विमर्शशून्या धीष्टेऽप्यन्धायतेऽध्वनि ॥ ३९॥ टीका-अन्धायते अन्धमिवात्मानमाचरति तत्त्वं न पश्यतीत्यर्थः । काऽसौ, धीर्बुद्धिः । केषां, विनेतृणामपि । केषामिव, विनेयवत् उपाध्यायानाम् शिष्याणां यथा। क, अध्वनि मार्गे अर्थाच्छास्त्रे निःश्रेयसि वा। किंविशिष्टेऽपि, दृष्टेऽपि । अभ्यस्तेऽपि । किंविशिष्टा सती, विमर्शशून्या अन्तस्तत्वक्षोदविधुरा। कथं, विना । कया, स्वाध्यायशालया पाठस्थानेन । ततश्चैत्यादिचतुष्टयं श्रेयोऽर्थ नियमेन कारयेदिति प्रतिपत्तव्यम् ॥ ३९ ॥ सत्रातुरोपचारस्थानयोरनुकम्प्यप्राण्यनुग्रहबुब्या विधापनं बह्वारम्भरतानां -गृहस्थानां जिनपूजार्थ पुष्पवाटिकादिनिर्मापणे दोषाभावं च प्रकाशयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy