________________
सागारधर्मामृते
टीका--यस्येत् प्रयतेत । सद्गृही। किं कर्तु,जनयितुम् अपूर्वानुत्पादयितुं । कान् साधून् । किंवत्, अपत्यवत् पुत्रान्यथा । किं कर्तुम् , अनुबध्दुं सन्तत्या प्रवर्तयितुं । कं, जिनधर्म । किंविशिष्टं, जगद्वन्धुं लोकानामुपकारकं । तथा यस्येत् । किं कर्तुम्. उत्कर्षयितुम् उत्कृष्टान् कर्तुं । कान्, वर्तमानान् यतीन् । कै,-र्गुणैः श्रुतज्ञानादिभिः । जिनधर्ममित्यादि पूर्ववदत्रापि योज्यम् ॥ ७१ ॥
सम्प्रति पुरुषाणां दुष्कर्मगुणत्वाद्गुणातिशयांसिद्धेदर्शनात्तदुत्पादने निष्फलः प्रयत्न इति गृहिणां मनोभङ्गनिषेधार्थमाह--
श्रेयो यत्नवतोऽस्त्येव कालिदोषाद्गुणातौ ।।
असिद्धावपि तत्सिद्धी स्वपरानुग्रहो महान् ॥ ७२ ॥ टीका---अस्त्येव नियमेन भवति । किं तत्, श्रेयः पुण्यं । कस्य, यत्नवतः प्रयतमानस्य गृहस्थस्य । कस्मिन्विषये, गुणातौ गुणातिशयशालिनां विषये । कस्यां सत्याम् . असिद्धावपि आवृत्त्या गुणातावनिप्पत्तावपि । कस्मात, कलेः पञ्चमकालस्य पापकर्मणो वा दोषादपराधात् प्रातिलोम्यादित्यर्थः।तत्सिद्धौ महालाभमाह । भवति । कोऽसौ, स्वपरानुग्रहः स्वस्य वैय्यावृत्यकरस्य परस्य च साधर्मिकस्य सामान्यजनस्य च अनुग्रह उपकारः । किंविशिष्टो, महान् विपुलः । कस्यां सत्यां, तत्सिद्धौ तेषां गुणद्युतां निष्पत्तौ । कस्मात्, कलिदोपाहुष्कर्मप्रतिघातात् दैवदुर्योगादित्यर्थः ॥ ७२ ॥
महाव्रतमणुव्रतं वा बिभ्रत्यः स्त्रियोऽपि धर्मपात्रतयाऽनुग्राह्या इति समर्थयितुमाह--
आर्यिकाः श्राविकाश्चापि सत्कुर्याद्गणभूषणाः ।
चतुर्विधेऽपि सधे यत्फलत्युप्तमनल्पशः ।। ७३ ।। टीका--सत्कुर्याद्यथोक्तविनयप्रतिपत्त्यादिना आवर्जयेत् सद्गही । काः, आर्यिका उपचरितमहाव्रतधराः स्त्रीः, न केवलं ता: श्राविकाश्च यथाशक्तिमूलोत्तरगुणभृतः तदुपासिकाश्च । अपिशब्दान्न केवलं तिन्योऽवतिनीरपि सन्मानयदित्यर्थः । किंविशिष्टाः, गुणभूषणाः गुणाः श्रुततपःशीलादयो भूषणान्यलङ्करणानि यासां ताः। यद्यस्मात् । फलति इष्टं सम्पादयति । किं तत्, उसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org