________________
द्वितीयोध्यायः ।
४१
का, अभ्युदयश्रियः । कं अर्हतो यष्टारं । किंविशिष्टं व्रतैर्दैशतो हिंसादिविर
तिलक्षणैर्भूषितमलंकृतम् ॥ ३२ ॥
जिनपूजान्तराय परिहारोपायविधिमाह
यथास्वं दानमानाद्यैः सुखीकृत्य विधर्मणः ।
सधर्मणः स्वसात्कृत्य सिध्यर्थी यजतां जिनम् ॥ ३३ ॥
"
टीका - यजतां पूजयतु । कोऽसौ सिध्यर्थी जिनपूजासम्पूर्णतां स्वात्मोपलब्धि वा अभीप्सुः । कं, जिनं । किं कृत्वा, स्वसात्कृत्य स्वाधीनान् कृत्वा । कानू, सधर्मणः जिनधर्मभावितान् । किं कृत्वा, सुखीकृत्य अनुकूलान् कृत्वा । कानू, विधर्मणः शिवादिधर्मरतान् सर्वधर्मबाह्यान् वा । कैः यथास्वं यथायोग्यं । दानमानाद्यैः अर्थविनियोगसत्काराभ्युत्थानासनप्रदानादिभिरावर्जनोपायैः ॥ ३३ ॥
स्नानापास्तदोषस्यैव गृहस्थस्य स्वयं जिनयजनेऽधिकारित्वमन्यस्य पुनस्तथाविधेनैवान्येन तद्याजन इत्युपदेशार्थमाह
स्त्र्यारम्भसेवासंक्लिष्टः स्नात्वाऽऽकण्ठमथाशिरः |
स्वयं यजेताईत्पादानस्नातोऽन्येन याजयेत् ॥ ३४ ॥
टीका- यजेत् पूजयेत् । कोऽसौ, भाक्तिको गृही। कानs, -ईत्पादान् जिनचरणान् । केन, स्वयमात्मना । किं कृत्वा, स्नात्वा शौचं कृत्वा । कथ, माकण्ठं १ नित्यं स्नानं गृहस्थस्य देवार्चनपरिग्रहे । यतेस्तु दुर्जनस्पर्शात्स्नानमन्यद्विगर्हितम् ॥ वातातपादिसंस्पृष्ठे भूरितोये जलाशये । अवगाह्याचरेत्स्नान-मतोऽन्यद्गालितं भजेत् ॥ पादजानुकटिग्रीवा-शिरः पर्यन्तसंश्रयम् । स्नानं पञ्चविधं ज्ञेयं यथादोषं शरीरिणाम् ॥ ब्रम्हचर्योपपन्नस्य निवृत्ताम्भकर्मणः । यद्वा तद्वा भवेत्स्नान- मन्त्यमन्यस्य तु द्वयम् ॥ सर्वारम्भविजृम्भस्य ब्रह्मजिह्मस्य देहिनः । अविधाय बहिः शुद्धिं नाप्तोपास्त्यधिकारिता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org